बटेश्वर धाम्ने वैश्विक पर्यटन केंद्रस्य रूपेण विकसितं करिष्यति सर्वकारः - जयवीरसिंहः
लखनऊ, 22 मईमासः (हि.स.)। उत्तरप्रदेशस्य योगीआदित्यनाथसर्वकारः प्रदेशस्य सांस्कृतिक-, धार्मिक-, ऐतिहासिक-संपदां वैश्विकस्तरे प्रतिष्ठापनार्थं निरन्तरं महत्त्वपूर्णानि पदानि स्वीकुरुते। अस्याः श्रृंखलायाः अन्तर्गतं पूर्वप्रधानमन्त्रिणः अटल बिहारी
जयवीर सिंह


लखनऊ, 22 मईमासः (हि.स.)।

उत्तरप्रदेशस्य योगीआदित्यनाथसर्वकारः प्रदेशस्य सांस्कृतिक-, धार्मिक-, ऐतिहासिक-संपदां वैश्विकस्तरे प्रतिष्ठापनार्थं निरन्तरं महत्त्वपूर्णानि पदानि स्वीकुरुते। अस्याः श्रृंखलायाः अन्तर्गतं पूर्वप्रधानमन्त्रिणः अटल बिहारी वाजपेयी पैतृकभूमिः तथा १०१ प्राचीन-शिवमन्दिर-श्रृंखलया प्रसिद्धं बटेश्वर धाम अधुना आध्यात्मिक-विरासत-पर्यटनस्य वैश्विककेन्द्ररूपेण विकसितं क्रियते।

भारतसर्वकारस्य एसएएससीआई योजनायाः अन्तर्गतं ७१.५० कोटि-रूप्यक-मूल्येन सञ्चाल्यमानस्य अस्य महत्त्वाकाङ्क्षि-परियोजनायाः कृते अधुना यावत् ५६.११ कोटि-रूप्यकाणि विमोचितानि सन्ति। पर्यटनविभागस्य अधिकारिणां अनुसारं बटेश्वरधाम्नि विश्वस्तरीय-पर्यटन-सुविधानां निर्माणकार्यं युद्धस्तरे प्रचलति तथा सम्पूर्णपरियोजनायाः सम्पन्नतायै दिसम्बरमासस्य २०२६ पर्यन्तं लक्ष्यं निर्धारितम् अस्ति।

विजिटर-सपोर्ट तथा आधुनिक-आवास-क्षेत्रस्य निर्माणम्

श्रद्धालूनां देश-विदेशेभ्यः आगच्छतां पर्यटकानां सुविधां दृष्ट्वा अस्य परिसरस्य अत्याधुनिकरूपेण विकासः क्रियते। विजिटर-सपोर्ट्-आवास-क्षेत्रस्य अन्तर्गतं अत्र विशाल-वाहन-स्थापन-व्यवस्था, स्वच्छ-सार्वजनिक-शौचालयाः, महिला-पुरुष-आगन्तुकयोः कृते प्रायः २० कक्षयुक्ते पृथक् सर्वसुविधासम्पन्ने डॉरमेट्री-भवने निर्मीयमाणे स्तः। तेन सह पर्यटकानां कृते आधुनिक-कैफेटेरिया, फूड्-कियोस्क्, सोवेनियर्-शॉप् तथा बालकानां मनोरञ्जनार्थं विशेषः इण्टरैक्टिव्-क्षेत्रः अपि सज्जीक्रियते।

शिवपुराणम्, समुद्रमन्थनम्, संगीतवीथ्याञ्च आकर्षणस्य केन्द्रम्

अस्मिन् आध्यात्मिकता-संस्कृत्योः अद्वितीय-संगमे पर्यटकानां कृते आधुनिक-प्रौद्योगिक्या युक्तम् अत्यद्भुतम् अनुभवं प्रदास्यते। अत्र निर्मीयमाणाः इण्टरैक्टिव्-गैलर्यः तथा थीम्-आधारित-आकर्षणानि श्रद्धालून् भारतीय-आध्यात्मिक-विरासतायाः समीपं नयिष्यन्ति।

संगीतवीथ्याञ्चतुर्णां वेदानां शिव पुराण कथानां च अत्याधुनिक-डिजिटल-माध्यमैः प्रदर्शनं भविष्यति। एतदतिरिक्तं “चारधाम-गैलरी” तथा “समुद्रमन्थन-गैलरी” अपि निर्मीयमाणे स्तः, ये दर्शकाणां विशेष-आकर्षणकेन्द्रे भविष्यतः।

परियोजनायाः सर्वाधिकं मुख्यं रमणीयं च आकर्षणं तस्य “सेन्ट्रल्-लैण्डस्केप-क्षेत्रं” भविष्यति, यत् अनुभवात्मक-पर्यटनस्य नवीनकेन्द्ररूपेण विकसितं क्रियते। अत्र विशालस्य वटवृक्षस्य समीपे भगवान् शिव ध्यानमग्नमुद्रायां भव्यविशालप्रतिमा स्थाप्यते। अस्याः दिव्यप्रतिमायाः परितः आकर्षकः “ध्यानपथः” तथा भव्यं “शिवप्राङ्गणम्” विकसितं भविष्यति।

तेन सह देशस्य पवित्राणां १२ ज्योतिर्लिङ्गानां सुन्दर-प्रतिकृतिभिः अलङ्कृतः “शिवलिङ्गम्-पार्क्” तथा यमुना नदीभगवतः शिव च प्राचीन-आध्यात्मिक-सम्बन्धं प्रदर्शयन् मनोहरः “कालिन्दी-वनम्” अपि निर्मीयते। अस्य परिसरस्य भव्यतायाः पूर्णतार्थं सेवायाः प्रतीकस्य भगवान् नंदी विशालप्रतिमा अपि स्थाप्यते।

आध्यात्मिक-पर्यटनस्य महत्तमं केन्द्रं भवति उत्तरप्रदेशः

बटेश्वर धाम अस्य कायाकल्पस्य सरकारस्य च दृष्टिकोणस्य विषये उत्तरप्रदेशस्य पर्यटन-संस्कृतिमन्त्री जयवीर सिंह उक्तवान् यद् “अस्माकं सर्वकारः बटेश्वरधाम्नः समेकितविकासेन अस्य प्राचीनविरासतायाः संरक्षणेन सह पर्यटनस्य प्रोत्साहनार्थं स्थानीययुवानां कृते जीविकानान्नवीनावसरनिर्माणार्थं च पूर्णतया प्रतिबद्धा अस्ति।”

आगरा अधुना देशीय-विदेशीय-पर्यटकानां प्रथमपसन्दरूपेण उदितम् अस्ति, यत्र वर्षे २०२५ तमे अभिलेखीय-संख्यया १.८३ कोटि-पर्यटकाः भ्रमणं कृतवन्तः।

Hindusthan Samachar / Dheeraj Maithani