Enter your Email Address to subscribe to our newsletters

भोपालम्, 22 मईमासः (हि.स.)।भारतीयजनतापार्टीदलस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः अद्य अर्थात् २२ मईतः २४ मईपर्यन्तं मध्यप्रदेशस्य विविधजिलानां त्रिदिवसीयप्रवासे भविष्यति। अस्मिन् काले सः गुना, अशोकनगर, शिवपुरी, ग्वालियरग्रामीण, निवाडी, छतरपुर तथा सतना इत्येषु आयोजितेषु जिलाप्रशिक्षणवर्गेषु सहभागित्वं कृत्वा कार्यकर्तॄन् सम्बोधयिष्यति।
भाजपामीडिया-प्रदेशप्रभारी आशीषउषाअग्रवालः जानकारी प्रदाय उक्तवान् यत् भाजपासङ्गठनेन आयोजितेषु एतेषु प्रशिक्षणवर्गेषु पार्टी-विचारधारा, संगठनात्मककार्यप्रणाली तथा आगामिरणनीतिषु विषये कार्यकर्तृभ्यः मार्गदर्शनं प्रदास्यते।
२२ मई : गुना तथा अशोकनगरयोः कार्यक्रमः
प्रदेशाध्यक्षः खण्डेलवालः अद्य शुक्रवासरे प्रातः ११:३० वादने गुना-स्थिते ग्रीनमाउंटेन-गादेर-गुफायाम्, ए.बी.रोड् इत्यत्र आयोजितं जिलाप्रशिक्षणवर्गं सम्बोधयिष्यति। ततः अनन्तरं अपराह्णे ३:३० वादने अशोकनगरस्य थोमनजी इत्यत्र आयोजिते प्रशिक्षणवर्गे सहभागित्वं करिष्यति।
२३ मई : शिवपुरी तथा ग्वालियरग्रामीणयोः प्रवासः
२३ मई दिनाङ्के प्रदेशाध्यक्षः खण्डेलवालः प्रातः ११ वादने शिवपुर्याम् आयोजितस्य जिलाप्रशिक्षणवर्गस्य द्वितीयसत्रे सहभागित्वं करिष्यति। ततः अनन्तरम् अपराह्णे ३ वादने ग्वालियरग्रामीणे आयोजितं प्रशिक्षणवर्गं सम्बोधयिष्यति।
२४ मई : छतरपुर तथा सतना इत्यत्र कार्यकर्तृभिः सह संवादः
त्रिदिवसीयप्रवासस्य अन्तिमदिने २४ मई दिनाङ्के प्रदेशाध्यक्षः खण्डेलवालः प्रातः ११:३० वादने छतरपुरे जिलाप्रशिक्षणवर्गस्य उद्घाटनसत्रे सहभागित्वं करिष्यति। तथा च सायं ६ वादने सतनायाम् आयोजितं जिलाप्रशिक्षणवर्गं सम्बोध्य कार्यकर्तॄणां मार्गदर्शनं करिष्यति। भाजपासङ्गठनस्य अनुसारम् एतेषां प्रशिक्षणवर्गाणां उद्देश्यं बूथस्तरपर्यन्तं संगठनं सुदृढं कर्तुं तथा कार्यकर्तॄन् आगामिराजनीतिकपरिस्थितिभ्यः सज्जान् कर्तुम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani