Enter your Email Address to subscribe to our newsletters



भोपालनगरम्, २१ मे-मासः (हि.स.)। मध्यप्रदेशस्य इंदौरनगरे भारतस्य ब्रिक्स-अध्यक्षतायाः अन्तर्गतं आयोजितं द्विदिवसीयं ब्रिक्स-युवा-उद्यमिता-कार्यसमूहस्य सम्मेलनं गुरुवासरे सम्पन्नम्। अस्मिन् सम्मेलने द्वितीयदिने संरचितसंवादः, अनुभवानां सहभागकरणम्, सहयोगात्मक-विचारविनिमयः च अभवत्, यस्मिन् ब्रिक्स-सदस्यदेशानां प्रतिनिधयः, युवा-उद्यमिनः, नीतिविशेषज्ञाश्च एकत्रिताः अभवन्। द्वितीयदिवसस्य सत्रं क्रिस्टल-आईटी-उद्याने आयोजितम्। ततः परं प्रतिनिधिमण्डलेन पीथमपुर-औद्योगिकक्षेत्रस्य भ्रमणं कृतम्।
एमपीआईडीसी इत्यस्य कार्यकारी-निदेशकः हिमांशुः प्रजापति, एसईजेड-कमिश्नरः अभिषेकः शर्मा, ब्रिक्स-प्रतिनिधिमण्डलं तथा शीर्ष-आईटी-संस्थानां प्रतिनिधयः च इत्यनयोः मध्ये विस्तृता चर्चा अभवत्। चर्चायां उद्भवनशीलकार्याक्षेत्राणि, विशालसंस्थाभिः सह कार्यकाले आगच्छन्त्यः समस्याः, तीव्रगत्या परिवर्तमान-प्रौद्योगिकीभिः सह स्वयं निरन्तरम् अद्यतनं स्थापयितुं आवश्यकतायाः विषये विचारविमर्शः अभवत्। सहैव इंदौरनगरस्य विकसितं स्टार्टअप-पारिस्थितिकतन्त्रं, डाटा-सेन्टर तथा कृत्रिमबुद्धिमत्ता इत्यादिषु क्षेत्रेषु ब्रिक्स-देशानां मध्ये सहयोगस्य सम्भावनाः, भारते सुलभमूल्ये अन्तर्जालस्य उपलब्धिः च स्टार्टअप-उद्यमानां डिजिटल-नवाचारस्य च महत् शक्तिरूपेण निरूपिता।
सम्मेलनानन्तरं ब्रिक्स-प्रतिनिधिमण्डलेन पीथमपुर-औद्योगिकक्षेत्रस्य भ्रमणं कृतम्, यत् मध्यभारतस्य प्रमुखेषु विनिर्माण-समूहक्षेत्रेषु अन्यतमम् अस्ति। तत्र वाहन-सहायक-उद्योगाः, औषधनिर्माणोद्योगाः, अभियान्त्रिकी-उद्योगाः, खाद्य-प्रसंस्करण-उद्योगाश्च स्थापिताः सन्ति। अनेन भ्रमणेन प्रतिनिधिभ्यः भारतस्य विनिर्माणक्षमता औद्योगिकगाम्भीर्यं च प्रत्यक्षतया ज्ञातम्। तथा च ब्रिक्स-देशानां मध्ये औद्योगिक-सहयोगः, आपूर्तिशृङ्खला-एकीकरणम्, प्रौद्योगिकी-साझेदारी इत्यादिषु विषयेषु सार्थकचर्चा प्रोत्साहिता।
Hindusthan Samachar / Divya Ranjan