रेखा गुप्ता राष्ट्र सेविका समितेः वरिष्ठ कार्यकर्त्र्याः रुक्मिणी अक्कायाः निधने प्राकटत् शोकम्
नव दिल्ली, 22 मईमासः (हि.स.)।दिल्लीमुख्यमन्त्री रेखा गुप्ता राष्ट्रसेविकासमितेः पूर्व-अखिलभारतीय-सहकार्यवाहिका रुक्मिणी अक्का इत्यस्याः निधनविषये शोकं व्यक्तवती। रेखागुप्ता शुक्रवासरे एक्स्-माध्यमे शोकसन्देशं प्रकाशित्य उक्तवती यत् राष्ट्रसेविकासम
Rukmini Akka (file photo)


नव दिल्ली, 22 मईमासः (हि.स.)।दिल्लीमुख्यमन्त्री रेखा गुप्ता राष्ट्रसेविकासमितेः पूर्व-अखिलभारतीय-सहकार्यवाहिका रुक्मिणी अक्का इत्यस्याः निधनविषये शोकं व्यक्तवती।

रेखागुप्ता शुक्रवासरे एक्स्-माध्यमे शोकसन्देशं प्रकाशित्य उक्तवती यत् राष्ट्रसेविकासमितेः पूर्व-अखिलभारतीय-सहकार्यवाहिका रुक्मिणी-अक्का इत्यस्याः निधनसमाचारः अत्यन्तं दुःखदः अस्ति।

मुख्यमन्त्री उक्तवती यत् तया स्वस्य सम्पूर्णजीवनं राष्ट्रभावनायै, सेवाकार्याय, संगठनकार्याय च समर्पितम्। तस्याः व्यक्तित्वे संवेदनशीलता, अनुशासनम्, मातृशक्तेः उत्थानं च अद्भुतरूपेण समन्वितम् आसीत्। समाजस्य संगठनस्य च प्रति तस्याः योगदानं सदा प्रेरणास्रोतः भविष्यति। ईश्वरात् प्रार्थना क्रियते यत् पुण्यात्मने स्वीयश्रीचरणयोः स्थानं ददातु तथा समग्रसेविकासमितिपरिवाराय एतत् दुःखं सोढुं शक्तिं प्रददातु।

उल्लेखनीयं यत् राष्ट्रसेविकासमितेः पूर्व-अखिलभारतीय-सहकार्यवाहिका रुक्मिणी-अक्का (अष्टनवतिवर्षीया) गुरुवासरस्य रात्रौ बेंगलुरुनगरे स्थिते स्वनिवासस्थाने दिवंगता अभवत्। सा आयुसम्बद्धस्वास्थ्यसमस्याभिः पीड्यमाना आसीत्। अद्य मध्याह्ने एकवादनपर्यन्तं तस्याः निवासस्थाने पार्थिवशरीरस्य अन्तिमदर्शनं कर्तुं शक्यते। ततः परं हरिश्चन्द्रघाट-रुद्रभूमौ तस्याः अन्त्येष्टिकर्म सम्पन्नं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani