Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 22 मईमासः (हि.स.)।
मुख्यमन्त्री रेखागुप्ता शुक्रवासरे बुराड़ी-विधानसभाक्षेत्रस्य मुखमेलपुर-ग्रामे प्रायः त्रयाणाम् एकड्-परिमितभूमौ निर्मीयमाणस्य प्रथमस्य ऑक्सीजन्-पार्कस्य शिलान्यासं कृतवती। एषः पार्कः स्थानीयजनानां कृते हरितपर्यावरणं, स्वास्थ्यं, मनोरञ्जनं तथा सामाजिकक्रियाकलापानां निमित्तं उत्तमं सार्वजनिकस्थानं प्रदास्यति।
मुख्यमन्त्री अवदत् यत् अस्य पार्कस्य निर्माणार्थं वनविभागेन एककोटिरूप्यकाणि स्वीकृतानि। एतदतिरिक्तं तया स्वकीयविधायकनिधेः तथा विवेकाधीननिधेः माध्यमेन अपि एककोटिरूप्यकाणां अतिरिक्तसाहाय्यस्य घोषणा कृता। तया अधिकारिणः निर्देशिताः यत् पार्कः अत्याधुनिकसुविधायुक्तः, आकर्षकः तथा देहलीनगरस्य श्रेष्ठपार्केषु गणनीयः भवेत्।
मुख्यमन्त्री उक्तवती यत् विकसितदेहली-निर्माणे आधुनिकाधारभूतसुविधानां विकासेन सह पर्यावरणसंरक्षणं तथा नागरिकानां जीवनगुणवत्तायाः उन्नयनम् अपि सरकारस्य सर्वोच्चप्राथमिकतासु अन्तर्भवति। मुखमेलपुरे विकसितोऽयं पार्कः केवलं हरितक्षेत्रं न भविष्यति, अपितु स्थानीयनागरिकानां कृते स्वास्थ्यस्य, सामाजिकसहभागितायाः तथा सकारात्मकजीवनशैल्याः केन्द्रं भविष्यति।
तया उक्तं यत् देहलीसर्वकारः नगरनिगमेन सह संयुक्तरूपेण राजधानीक्षेत्रे अधिकाधिकहरितक्षेत्रविकासाय, पार्काणाम् आधुनिकीकरणाय तथा सार्वजनिकसुविधानां विस्ताराय निरन्तरं कार्यं करोति। वर्धमाननागरजनसंख्यायाः मध्ये एतादृशानि सार्वजनिकस्थानानि नागरिकान् प्रकृत्या सह सम्बद्धान् कर्तुं, तनावमुक्तं वातावरणं प्रदातुं तथा स्वस्थजीवनशैल्याः प्रोत्साहने महत्त्वपूर्णां भूमिकां निर्वहन्ति।
मुख्यमन्त्री अवदत् यत् अस्मिन् ऑक्सीजन्-पार्के जनसुविधां पर्यावरणसंरक्षणं च ध्यानस्थं कृत्वा सञ्चरणमार्गाः, आकर्षकाः ऊर्जासंरक्षकदीपप्रबन्धाः, उपवेशनविश्रामार्थं कुटीराणि, सुन्दरः जलाशयः तथा विविधप्रजातीनां छायादारवृक्षाः स्थाप्यन्ते। एतदतिरिक्तं पर्याप्तं हरितक्षेत्रं मुक्तस्थानानि च विकसितानि भविष्यन्ति।
मुख्यमन्त्री उक्तवती यत् परियोजनायाः पूर्णतायाः अनन्तरं मुखमेलपुरस्य सह जिंदपुर, बख्तावरपुर, हिरणकी तथा समीपवर्तिक्षेत्राणां सहस्रशः जनाः लाभान्विताः भविष्यन्ति। बालकानां, महिलानां, वरिष्ठनागरिकाणां तथा युवानां कृते अयं पार्कः विहाराय, व्यायामाय, योगाभ्यासाय, मनोरञ्जनाय तथा सामुदायिकक्रियाकलापानां निमित्तं आदर्शकेन्द्रं भविष्यति।
रेखागुप्ता अवदत् यत् अस्मिन् वर्षे देहलीसरकारः सप्ततिलक्षाधिकवृक्षाणां,निकुंजानां तथा हैज्-वनस्पतीनां रोपणस्य लक्ष्यं धृतवती अस्ति। तया विश्वासः व्यक्तीकृतः यत् ऑक्सीजन्-पार्कः, वृक्षारोपण-अभियानम् तथा पर्यावरणसंरक्षणसम्बद्धाः अन्ये प्रयासाः देहलीनगरम् अधिकं स्वच्छं, हरितं तथा निवासयोग्यं राजधानीक्षेत्रं निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।
तया उक्तं यत् सर्वकारः प्रधानमन्त्रिणो नरेन्द्रमोदिनः ‘एकः वृक्षः मातुः नाम्ना’, पर्यावरणसंरक्षणस्य तथा विकसितभारत-विकसितदेहली-संकल्पस्य भूमौ कार्यान्वयनार्थं निरन्तरं प्रयत्नशीलाऽस्ति। राजधानीक्षेत्रे हरितप्रदेशवृद्धये तथा नागरिकानां कृते उत्तमजीवनगुणवत्ताप्रदानार्थं एतादृशविकासकार्याणि भविष्येऽपि प्रवर्तिष्यन्ते।
मुख्यमन्त्री क्षेत्रे स्थितस्य दूषितनालस्य आवरणार्थं तथा अन्येषां स्थानीयविकासकार्याणां निमित्तं आवश्यकवित्तीयसहायतां प्रदातुं आश्वासनं दत्तवती। तया अवदत् यत् सांसदैः तथा स्थानीयजनप्रतिनिधिभिः प्रदत्तानां सुझावानां आधारेण बुराड़ी-विधानसभाक्षेत्रस्य कृते विंशतिः कोटिरूप्यकपरिमिताः विकासपरियोजनाः स्वीकृताः, येषु मलनिस्सारणरेखाः तथा पेयजल-नलिकासम्बद्धकार्याणि अन्तर्भवन्ति। क्षेत्रस्य जलापूर्तिसम्बद्धसमस्याः स्थायिरूपेण समाधानार्थं प्राथमिकतया कार्यं क्रियते।
मुख्यमन्त्री उक्तवती यत् सरकारेण ग्रामेषु तथा बाह्यदेहलीक्षेत्रेषु मार्गनिर्माणम्, नालव्यवस्था, परिवहनम्, शिक्षाक्षेत्रम् तथा स्वास्थ्यसुविधासम्बद्धाः प्रायः दशसहस्रकोटिरूप्यकपरिमिताः परियोजनाः आरब्धाः। एतासां परियोजनानां पूर्णतायाः अनन्तरं जनाः उत्तमसुविधाः प्राप्स्यन्ति।
तया अवदत् यत् बुराड़ी-अस्पताले नवीनाः चिकित्सायन्त्राणि स्थापितानि, डायलिसिस्-सुविधानां विस्तारः अपि कृतः। चिरकालात् निरुद्धं वाहन-फिटनेस-केन्द्रं आधुनिक-स्वचालित-फिटनेस-परीक्षण-केन्द्ररूपेण विकसितं क्रियते, येन स्थानीययुवानां कृते नूतन-रोजगार-अवसराः अपि उत्पत्स्यन्ते।
अस्मिन् अवसरे उत्तरपूर्वी-देहलीक्षेत्रस्य सांसदः मनोजतिवारी, देहली-महापौरः प्रवेशवाही तथा बहुसंख्यकाः पार्षदाः, नागरिकाः, क्षेत्रवासिनः च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani