बकरीद-उत्सवमाधृत्य दिल्लीसर्वकारस्य दिङ्निर्देशाः, सार्वजनिक स्थलेषु बलिदानं प्रतिबंधितम्
नव दिल्ली, 22 मईमासः (हि.स.)। दिल्लीसर्वकारः आगामि ‘बकरीद्’-उत्सवं प्रति मार्गनिर्देशान् प्रकाशितवती। दिल्लीसर्वकारस्य मन्त्रिमण्डलमन्त्री कपिल मिश्रा उत्सवस्य शुभकामनाः प्रदाय सर्वेभ्यः विधि-व्यवस्थां रक्षितुं प्रार्थनां कृतवान्। कपिलमिश्रः शुक
दिल्ली सरकार में कैबिनेट मंत्री कपिल मिश्रा गाइडलाइन्स की जानकारी देते हुए।


नव दिल्ली, 22 मईमासः (हि.स.)।

दिल्लीसर्वकारः आगामि ‘बकरीद्’-उत्सवं प्रति मार्गनिर्देशान् प्रकाशितवती। दिल्लीसर्वकारस्य मन्त्रिमण्डलमन्त्री कपिल मिश्रा उत्सवस्य शुभकामनाः प्रदाय सर्वेभ्यः विधि-व्यवस्थां रक्षितुं प्रार्थनां कृतवान्।

कपिलमिश्रः शुक्रवासरे विडियो-सन्देशं प्रकाशित्य दिल्लीसर्वकारस्य मार्गनिर्देशानां विषये अवगतवान्। तस्य अनुसारं पशुकल्याणं सार्वजनिकस्वच्छता च सुनिश्चितीकर्तुं बकरीद्-अवसरे केवलम् अधिकृत-निर्धारितस्थलेषु एव कुर्बानी-अनुमतिः भविष्यति। सहैव गोः, वत्सस्य, उष्ट्रस्य तथा अन्येषां प्रतिबन्धितपशूनां कुर्बान्याः उपरि पूर्णप्रतिबन्धस्य पालनम् अनिवार्यम् अस्ति। सः उक्तवान् यत् प्रतिबन्धितपशूनां कुर्बानीं कुर्वतां विरुद्धम् आपराधिकप्रकरणं पञ्जीकृतं भविष्यति।

मन्त्रिमण्डलमन्त्री उक्तवान् यत् सार्वजनिकस्थलेषु,विथिकासु, मार्गेषु च कुर्बान्याः अनुमतिः न भविष्यति। एतादृशं कुर्वतां विरुद्धम् अपि वैधानिकी कार्यवाही क्रियिष्यते। सः उक्तवान् यत् पशूनां रक्तं प्रत्यक्षतया मार्गेषु, नालिकासु, नहरिषु वा न प्रवहेत् तथा बलिदानोत्तरम्अनन्तरं अवशिष्टपदार्थानां मुक्तस्थले परित्यागः पूर्णतया प्रतिबन्धितः अस्ति। सः उक्तवान् यत् कुर्बानी केवलं वैधस्थलेषु एव क्रियताम् तथा क्रय-विक्रयः अपि वैधस्थलेषु एव भवेत्।

सः उक्तवान् यत् यदि कश्चित् एतेषां मार्गनिर्देशानां उल्लङ्घनं करोति तर्हि पुलिस-विभागं दिल्लीसर्वकारं वा सूचितुं शक्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani