Enter your Email Address to subscribe to our newsletters

रायपुर-नगरम्, २२ मे-मासः (हि.स.)। एतत् अत्यन्तं दुर्भाग्यपूर्णम् अस्ति यत् देशस्य प्राचीना राजनैतिक-दलरूपा कांग्रेस-पक्ष: अत्यन्त-निम्न-स्तरीय-राजनीतिं करोति। लोकसभायाः प्रतिपक्ष-नेता राहुल-गान्धिना सह कांग्रेस-दलस्य सर्वे नेतारः यां भाषां प्रयुञ्जते, तादृशी भाषा सामान्य-जनः अपि न प्रयुञ्जीत इति।
उपमुख्यमन्त्री अरुण-सावः अद्य शुक्रवासरे नवा-रायपुर-स्थिते शासकीय-निवास-कार्यालये पत्रकारैः सह चर्चायां एतद् उक्तवान्। तेन अग्रे उक्तं यत् असम-पश्चिम-बङ्गाल- तथा पुदुचेरी-विधानसभा-निर्वाचनेषु प्राप्तया पराजयेन कांग्रेस-नेतॄणां मानसिक-स्थितिः विकृता अभवत्। ते स्वसंयमं विहाय सर्वाः मर्यादाः उल्लङ्घितवन्तः। शब्दानां शुचितां प्रधानमन्त्री-पदस्य गरिमां च तैः खण्डितम्। जनता तान् कदापि न क्षमां करिष्यति।
उपमुख्यमन्त्री श्री-सावः उक्तवान् यत् राहुल-गान्धी तथा प्रदेश-कांग्रेस-अध्यक्षः दीपक-बैज: इत्यादयः नेतारः यथा भाषां प्रयुञ्जते, सा देशस्य राजनीति-लोकतन्त्रयोः कृते दुर्भाग्यपूर्णा अस्ति। कांग्रेस-नेतृभिः एतादृश-भाषायाः प्रयोगः अत्यन्तं निन्दनीयः अस्ति। एतदेव कारणं यत् कांग्रेस-दलं निरन्तरं देशे संकुचितं भवति तथा जनता तस्मात् दूरं गच्छति। अग्रिम-समये देशस्य जनता तान् अधिक-कठोरं पाठं शिक्षयिष्यति।
उपमुख्यमन्त्री सावः अवदत् यत् सुशासन-तिहारस्य अन्तर्गतं माननीयः मुख्यमन्त्री विष्णुदेव-सायः निरन्तरं विभिन्न-जनपदानां ग्रामान् गत्वा सर्वकारस्य योजनानां स्थलीय-वास्तविकतां ज्ञातुं प्रयतते। सः जनैः सह संवादं कृत्वा तेषां समस्याः समाधानं च करोति। मन्त्रिमण्डलस्य सदस्याः, सांसदाः, विधायकाः अन्ये जन-प्रतिनिधयः च अपि निरन्तरं ग्रामं ग्रामं गत्वा जनैः सह संवादं कुर्वन्ति तथा तेषां समस्याः समाधास्यन्ति। तेन उक्तं यत् सर्वकारः स्वयं जनानां मध्ये गत्वा तेषां समस्याः शृणोति तथा तासां समाधानं करोति। कल्याणकारी-सर्वकारस्य एतस्मात् महद्दायित्वं अन्यत् किमपि न भवितुम् अर्हति। मुख्यमन्त्रिणः विष्णुदेव-साय-महोदयस्य नेतृत्वे अस्माकं सर्वकारः एतदेव कार्यं पूर्ण-प्रतिबद्धतया करोति।
सावः उक्तवान् यत् तीव्र-उष्णतायाम् अपि बहुसंख्यकाः जनाः शिविराणि आगच्छन्ति तथा तेषां समस्याः समाधीयन्ते। एतत् अस्य प्रमाणम् अस्ति यत् जनानां सर्वकारे विश्वासः आस्था च स्थिरौ स्तः। निःसन्देहं जन-समस्या-निवारण-शिविराणां महान् लाभः छत्तीसगढ-जनतायै भविष्यति।
Hindusthan Samachar / Divya Ranjan