पञ्चवर्षीयवयसि देवित शाहस्य उत्तमता, इंडिया बुक ऑफ रिकॉर्ड्स इत्यत्र अंकितं नाम
वलसाड़म्, 22 मईमासः (हि.स.)। गुजरातराज्यस्य वापीनगरस्य छरवाड़ा-मार्गक्षेत्रे पञ्चवर्षीयः देवित्शाहः केवलं द्विमिनिट् त्रिंशत्सेकण्डेषु ४४.८ मीटरपरिमितां तैराकीं कृत्वा ‘इण्डिया बुक् ऑफ् रेकॉर्ड्स्’ इति अभिलेखे स्वनाम अंकितवान्। देवित्शाहस्य पिता
देवित शाह


इंडिया बुक ऑफ रिकॉर्ड्स


वलसाड़म्, 22 मईमासः (हि.स.)।

गुजरातराज्यस्य वापीनगरस्य छरवाड़ा-मार्गक्षेत्रे पञ्चवर्षीयः देवित्शाहः केवलं द्विमिनिट् त्रिंशत्सेकण्डेषु ४४.८ मीटरपरिमितां तैराकीं कृत्वा ‘इण्डिया बुक् ऑफ् रेकॉर्ड्स्’ इति अभिलेखे स्वनाम अंकितवान्।

देवित्शाहस्य पिता भावुक्शाहः अवदत् यत् बाल्यकालात् एव तैराक्यां रुचिं धारयन् देवितः नियमिताभ्यासेन कठोरपरिश्रमेण च एतां सिद्धिम् अलभत। पुत्रस्य अस्य उल्लेखनीयसफलतायाः अनन्तरं परिवारस्य मध्ये हर्षोल्लासस्य वातावरणं वर्तते। समग्रक्षेत्रे अपि जनाः देवितस्य प्रशंसां कुर्वन्ति।

अद्यतनकाले यदा अधिकांशबालकाः चलदूरवाणी-क्रीडासु तथा वीडियो-गेम् इत्यादिषु अधिकं समयं यापयन्ति, तदा देवितः क्रीडाक्षेत्रे विशेषतः तैराक्यां अभिलेखं निर्माय अन्येषां बालकानां कृते प्रेरणादायकं सकारात्मकं च उदाहरणं प्रस्तुतवान्।----

Hindusthan Samachar / Dheeraj Maithani