स्वास्थ्य-मन्त्रिणा सीएचसी-रायपुरस्य आकस्मिक-निरीक्षणं कृतम्
देहरादून-नगरम्, २२ मे-मासः (हि.स.)। उत्तराखण्डस्य स्वास्थ्य-मन्त्री सुबोध-उनियालः शुक्रवासरे सामुदायिक-स्वास्थ्य-केन्द्रस्य (सीएचसी) रायपुरस्य आकस्मिक-निरीक्षणं कृत्वा स्वास्थ्य-सेवानां स्थलीय-वास्तविकतां परीक्षितवान्। निरीक्षणस्य समये चिकित्सालये
रायपुर अस्पताल का निरीक्षण करते स्वास्थ्य मंत्री।


देहरादून-नगरम्, २२ मे-मासः (हि.स.)। उत्तराखण्डस्य स्वास्थ्य-मन्त्री सुबोध-उनियालः शुक्रवासरे सामुदायिक-स्वास्थ्य-केन्द्रस्य (सीएचसी) रायपुरस्य आकस्मिक-निरीक्षणं कृत्वा स्वास्थ्य-सेवानां स्थलीय-वास्तविकतां परीक्षितवान्। निरीक्षणस्य समये चिकित्सालये सर्वे चिकित्सकाः उपस्थिताः प्राप्ताः। अस्मिन् समये स्वास्थ्य-मन्त्रिणा रोगिभ्यः प्रदीयमानानां स्वास्थ्य-सुविधानां गहन-निरीक्षणम् अपि कृतम्।

स्वास्थ्य-मन्त्री प्रथमं पर्चा-काउण्टर-इत्यस्य निरीक्षणं कृतवान्। ततः परं तेन चिकित्सालयस्य ओपीडी, औषधि-वितरण-केन्द्रम्, वार्ड, आपात्कलीन-वार्ड तथा स्वच्छता-व्यवस्थायाः विवरणं गृहीतम्। मन्त्रिणा चिकित्सालयम् आगतैः रोगिभिः सह वार्तालापं कृत्वा तेषां प्राप्त-सुविधानां विषये सूचना गृहीता। अस्य क्रमस्य अन्तर्गतं तेन शुक्रवासरे सञ्चालितायाः ईसीजी-ओपीडी-सेवायाः निरीक्षणम् अपि कृतम्।

निरीक्षणस्य समये स्वास्थ्य-मन्त्री उक्तवान् यत् चिकित्सकैः स्वकर्तव्यानां निर्वहनं पूर्ण-जवाबदेहितया संवेदनशीलतया च करणीयम्, येन रोगिभ्यः उत्तम-चिकित्सा समये स्वास्थ्य-सेवाः च प्राप्तुं शक्येरन्। तेन स्पष्ट-निर्देशाः दत्ताः यत् चिकित्सालयेषु एतादृशी व्यवस्था सुनिश्चितीक्रियताम्, येन रोगिभ्यः बाह्यतः औषधि-क्रयणस्य आवश्यकता न भवेत्।

तेन चिकित्सालय-परिसरे स्वच्छता-व्यवस्थां उच्च-स्तरे स्थापयितुं विशेष-बलम् अपि दत्तम्। मन्त्री उक्तवान् यत् रोगिभ्यः सम्मानजनकाः गुणवत्तापूर्णाः च स्वास्थ्य-सेवाः प्रदातुं सर्वकारस्य सर्वोच्च-प्राथमिकतासु अन्तर्भवति।

निर्माणाधीन-नूतन-भवनस्य अपि निरीक्षणं कृतम्स्वास्थ्य-मन्त्री निरीक्षणस्य समये सीएचसी-रायपुरस्य निर्माणाधीन-नूतन-भवनस्य अपि अवलोकनं कृतवान्। तेन उक्तं यत् नूतन-भवनस्य निर्माणेन क्षेत्रवासिभ्यः आधुनिकाः उत्तमाः च स्वास्थ्य-सुविधाः उपलब्धाः भविष्यन्ति। अत्याधुनिक-संसाधनैः सुव्यवस्थित-चिकित्सा-सेवाभिः च चिकित्सालयस्य कार्यक्षमतायां अधिकः सुधारः भविष्यति।

मन्त्रिणा स्वास्थ्य-विभागस्य अधिकारिणः निर्देशिताः यत् चिकित्सालयम् आगच्छतां प्रत्येकं रोगिणः कृते समये चिकित्सा, औषधानि, आवश्यक-निरीक्ष-सुविधाः च उपलब्धाः क्रियन्ताम्, येन सामान्य-जनानां कृते सौकर्यं भविष्यति।

Hindusthan Samachar / Divya Ranjan