यदा जैव-विविधता समृद्धा भविष्यति तदा मानवता अपि समृद्धा भविष्यति : भूपेन्द्र-यादवः
भोपाल-नगरम्, २२ मे-मासः (हि.स.)। केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्री भूपेन्द्र-यादवः शुक्रवासरे उक्तवान् यत् इन्दौर-नगरं “वेटलैण्ड-सिटी” इति घोषितम् अस्ति तथा च देशे शीघ्रमेव रामसर-साइट्स्-सङ्ख्या १०० पर्यन्तं वर्धिष्यते, येषु ९४ साइट्स्
केंद्रीय मंत्री भूपेंद्र यादव ने भोपाल में इंटरनेशनल बिग कैट एलायंस प्री-समिट को किया संबोधित


मुख्यमंत्री डॉ. मोहन यादव एवं केंद्रीय मंत्री भूपेन्द्र यादव ने व्हीकल को दिखाई हरी झंडी


मुख्यमंत्री डॉ. मोहन यादव और केंद्रीय मंत्री भूपेंद्र यादव ने साहित्य, रिपोर्ट्स का किया विमोचन


केंद्रीय मंत्री भूपेंद्र यादव ने भोपाल में डाक टिकट का विमोचन किया


भोपाल-नगरम्, २२ मे-मासः (हि.स.)। केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्री भूपेन्द्र-यादवः शुक्रवासरे उक्तवान् यत् इन्दौर-नगरं “वेटलैण्ड-सिटी” इति घोषितम् अस्ति तथा च देशे शीघ्रमेव रामसर-साइट्स्-सङ्ख्या १०० पर्यन्तं वर्धिष्यते, येषु ९४ साइट्स् अधुना यावत् घोषिताः सन्ति। तेन “एक्ट् लोकली, थिङ्क् ग्लोबली” इति मन्त्रं प्रदाय उक्तं यत् विकासस्य पर्यावरणस्य च सन्तुलनं तदैव सम्भवं भवति यदा समाजः, नीतिनिर्मातारः, वैज्ञानिकाः, नागरिक-समाजः च संयुक्तरूपेण प्रयत्नं कुर्वन्ति। सः अवदत् यत् यदा जैव-विविधता समृद्धा भविष्यति तदा मानवता अपि समृद्धा भविष्यति।

केन्द्रीयमन्त्री यादवः अन्ताराष्ट्रिय-जैव-विविधता-दिवसस्य अवसरे शुक्रवासरे मध्यप्रदेशस्य राजधानी भोपाल-नगरे स्थितस्य भारतीय-वन-प्रबन्धन-संस्थानस्य (आईआईएफएम) सभागारे आयोजितस्य “इण्टरनेशनल बिग कैट एलायन्स” (आईबीसीए) प्री-समिट-कार्यक्रमस्य शुभारम्भ-अवसरे सम्बोधनं कुर्वन् आसीत्। अस्य कार्यक्रमस्य उद्घाटनं मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ.-मोहन-यादवेन तथा केन्द्रीयमन्त्रिणा यादवेन दीप-प्रज्वालनपूर्वकं कृतम्। कार्यक्रमस्य आरम्भे मुख्यमन्त्री केन्द्रीयमन्त्री च वन्यजीव-सुरक्षायै त्वरित-रेस्क्यू-ऑपरेशन्स-कार्याय च वन-विभागस्य २० विशेष-द्विचक्रिकाः एकं च अत्याधुनिकं रेस्क्यू-ट्रकं हरित-ध्वजेन प्रेषितवन्तौ।

सः उक्तवान् यत् भोजन-स्थाल्यां विविधतायाः उदाहरणं प्रदाय स्पष्टीकृतं यथा एकविधं भोजनं नीरसं भवति तथैव प्रकृतौ अपि विविधता एव जीवनस्य आधारः अस्ति। तेन “प्रोजेक्ट्-चीता” इत्यस्य सफलतायाः उल्लेखं कुर्वता उक्तं यत् चीता घास-क्षेत्राणि पुनर्जीवयति, यानि जल-संरक्षणाय अत्यन्तम् आवश्यकानि सन्ति। अपरञ्च व्याघ्रः न केवलं स्व-क्षेत्रस्य अपितु अस्माकं नदीनां अन्येषां प्राकृतिक-संसाधनानां च रक्षां करोति। तेन विचार: दत्तः यत् पृथिव्याः न्यूनातिन्यूनं ३० प्रतिशत-भागः स्थायी-आरक्षित-क्षेत्ररूपेण सुरक्षितः कर्तव्यः।

यादवः आर्थिक-सामाजिक-पक्षयोः समन्वयं कुर्वन् उक्तवान् यत् देशस्य जीडीपी-भागस्य अर्धाधिकः प्रत्यक्षतः परोक्षतः वा जैव-विविधतया सम्बद्धः अस्ति। अस्माकं औषधानि, फलानि, औषधीय-वनस्पतीनां निर्यातः च अस्याः कृपया एव सम्भवति। यदि जैव-विविधता दुर्बला भविष्यति तर्हि देशे खाद्य-सुरक्षायाः संकटः उत्पत्स्यते। तेन भोपाल-गैस-दुर्घटनायाः यूनियन-कार्बाइड-कूटकस्य सफल-निस्तारणाय मुख्यमन्त्रिणः डॉ.यादवस्य प्रशंसा कृता तथा च ग्राम-स्तरे समितीनां निर्माणेन स्थानीय-जनानां पर्यावरण-संरक्षणेन सह सामाजिक-आर्थिक-लाभप्रदानस्य समर्थनं कृतम्।

समिट-अवसरे इण्टरनेशनल बिग कैट एलायन्स-संस्थायाः महानिदेशकः डॉ.एसपी-यादवः तथा मध्यप्रदेश-वन-विभागेन भारते चीता-पुनर्स्थापन-अभियानविषये विशेष-प्रस्तुतिकरणं कृतम्। अस्मिन् अवसरे अनेकानां महत्त्वपूर्ण-प्रकाशनानां डिजिटल-पहलानां च शुभारम्भः कृतः, येषु विशेष-डाक-टिकटस्य विमोचनम्, “इण्डियाज बायोडायवर्सिटी रिपोर्ट २०२६” इत्यस्य विमोचनम्, नागोया-प्रोटोकॉल-विषये भारतस्य प्रथम-राष्ट्रीय-प्रतिवेदनस्य प्रकाशनम् तथा एबीएस् एण्ड्-टू-एण्ड् वेब्-पोर्टलस्य लोकार्पणं च अन्तर्भवति। अमरकण्टक-जैव-विविधता-धरोहर-स्थलस्य तथा मध्यप्रदेशस्य पवित्र-वनानां (देवस्थानानाम्) संरक्षण-विषयक-लघु-चलच्चित्राणां प्रदर्शनम् अपि अभवत्।

कार्यक्रमे केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-राज्यमन्त्री कीर्ति-वर्धन-सिंहः तथा मध्यप्रदेशस्य वन-पर्यावरण-राज्यमन्त्री दिलीप-अहिरवारः विशेषरूपेण उपस्थितौ आस्ताम्। अस्य समिट्-कार्यक्रमस्य संयुक्त-आयोजनं भारत-सर्वकारस्य वन-पर्यावरण-मन्त्रालयेन, राष्ट्रीय-जैव-विविधता-प्राधिकरणेन, मध्यप्रदेश-सर्वकारेण, आईबीसीए-संस्थया तथा आईआईएफएम-संस्थया च कृतम्, यस्य मुख्योद्देश्यं वन्यजीव-सुरक्षा वैश्विक-प्रतिबद्धतासु च जन-जागरूकतायाः संवर्धनम् अस्ति।

/ अंशु गुप्ता