Enter your Email Address to subscribe to our newsletters

खड़गपुरम्, २२ मे-मासः। भारतीयप्रौद्योगिकीसंस्थानं खड़गपुरस्य शोधकर्तृभिः नगरीय-तापमानस्य वायु-प्रदूषणस्य च संयुक्त-प्रभावस्य मूल्याङ्कनाय नूतनः वैज्ञानिकः ढांचा विकसितः, यः सतत-शहरी-नियोजनस्य तथा जलवायु-लचीलेषु नगरेषु निर्माणे महत्त्वपूर्णः इति मन्यते।
“सतत-शहरी-नियोजनाय ऊष्मा-प्रदूषणयोः एकीकृतः सूचकाङ्कः: दिल्ली-नगरात् प्राप्तानि प्रमाणानि” इति शीर्षकेण प्रकाशितस्य अस्य शोधस्य नेतृत्वं जयनारायणन कुट्टिप्पुरथ तथा वी.के. पटेल: इत्येताभ्यां कृतम्। अध्ययनमध्ये “शहरी-मानव-प्रदूषण-सूचकाङ्कः” नाम नूतना पद्धतिः विकसिताऽस्ति, या प्रथमवारं शहरी-ऊष्मा-द्वीप-प्रभावं तथा विविध-वायु-प्रदूषकजन्य-स्वास्थ्य-समस्या: एकत्र समग्ररूपेण मूल्याङ्कयति।
भारतीयप्रौद्योगिकीसंस्थानं खड़गपुरेण प्रकाशित-प्रेस-विज्ञप्त्यनुसारम् इदं शोधकार्यं २१ एप्रिल् २०२६ तमे दिने ‘जर्नल ऑफ स्टडीज इन केमिकल एंड एनवायरनमेंटल इंजीनियरिंग’ इति पत्रिकायां प्रकाशितम्। अध्ययनं दर्शयति यत् अद्यावधि शहरी-मूल्याङ्कन-प्रणालिषु तापमानं तथा वायु-प्रदूषणं पृथक् पृथक् विचार्यते स्म, किन्तु वास्तविक-स्थितौ तयोः संयुक्तः प्रभावः मानव-स्वास्थ्ये अधिकं गम्भीरं परिणामं जनयति।
शोधे दिल्ली-नगरम् उदाहरणरूपेण गृहीत्वा दर्शितं यत् घनी-जनसंख्या-युक्तेषु औद्योगिक-क्षेत्रेषु विशेषतः मध्य-पूर्व-उत्तर-पश्चिम-दिल्ली-प्रदेशेषु सूचकाङ्कस्य मानका: उच्चाः सन्ति, यत् अधिक-पर्यावरणीय-दाबं तथा स्वास्थ्य-समस्यां सूचयति। विपरीततः दक्षिण-दिल्ली तथा दक्षिण-पश्चिम-दिल्ली-प्रदेशेषु हरित-क्षेत्राणां बाहुल्येन सूचकाङ्कमानाः न्यूनाः दृश्यन्ते, यत् उत्तम-शहरी-नियोजनस्य सम्भावनां दर्शयति।
अध्ययने हरित-अवसंरचनायाः विस्तारः, सतत-परिवहन-व्यवस्था, औद्योगिक-वाहन-उत्सर्जन-नियन्त्रणं, मुक्त-क्षेत्र-संरक्षणं, शहरी-वायु-प्रवाह-गलियारा-विकासः तथा जलवायु-संवेदनशील-नियोजन-रणनीतयः इत्येतेषु विशेषं बलं दत्तम्।
शोधकर्तारः संचेतनां दत्तवन्तः यत् यदि शहरी-नियोजनं केवलं तापमानं अथवा केवलं प्रदूषणं आधारीकृत्य क्रियते, तर्हि वास्तविक-संयुक्त-समस्यानां मूल्याङ्कनं अपूर्णं भवेत्।
वैश्विक-स्तरे वर्धमानानां जलवायु-समस्यानां दृष्ट्या अयं सूचकाङ्कः नीति-निर्मातृभ्यः, शहरी-योजनाकारिभ्यः, सार्वजनिक-स्वास्थ्य-विशेषज्ञेभ्यः तथा पर्यावरण-संस्थाभ्यः महत्त्वपूर्णं निर्णय-सहायक-उपकरणं भवितुम् अर्हति।
Hindusthan Samachar / Divya Ranjan