(लीड) भारत-साइप्रस इत्येतयोर्मध्ये भविष्यति रणनीतिकसहकारिता , निवेशः अपि द्विगुणितः
नव दिल्ली, 22 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी साइप्रसदेशस्य राष्ट्रपतिना निकोसक्रिस्टोडौलाइड्सेन सह उभयोर्देशयोः मध्ये व्यापकविश्वसनीयसाझेदारीं अधिकं सुदृढीकर्तुं विषये शुक्रवासरे विस्तृतचर्चां कृतवन्तौ। महत्त्वपूर्णपदे भारतं साइप्रसद
प्रधानमंत्री मोदी औ साइप्रस के राष्ट्रपति प्रतिनिधिमंडल स्तर की वार्ता करते हुए


नव दिल्ली, 22 मईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी साइप्रसदेशस्य राष्ट्रपतिना निकोसक्रिस्टोडौलाइड्सेन सह उभयोर्देशयोः मध्ये व्यापकविश्वसनीयसाझेदारीं अधिकं सुदृढीकर्तुं विषये शुक्रवासरे विस्तृतचर्चां कृतवन्तौ। महत्त्वपूर्णपदे भारतं साइप्रसदेशश्च स्वीयद्विपक्षीयसम्बन्धान् रणनीतिकसाझेदारीस्तरं प्रति उन्नेतुं सहमतिं कृतवन्तौ। उभौ नेतारौ आतंकवादविरोधः, सामुद्रिकसुरक्षा, राजनयिकप्रशिक्षणम्, नवोन्मेषः, शिक्षा, संस्कृतिश्च इत्यादिषु बहुषु सम्झौतापत्रेषु अपि हस्ताक्षरं कृतवन्तौ।

विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् चर्चायां व्यापारनिवेशः, रक्षासुरक्षा, सामुद्रिकवित्तीयसम्पर्कः, प्रौद्योगिकी, नवोन्मेषः, गतिशीलता, शिक्षा, संस्कृति, भारतयूरोपीयसङ्घसम्बन्धाश्च इत्यादयः विषयाः समाविष्टाः आसन्। तौ क्षेत्रीयवैश्विकविषयेषु अपि स्वविचारान् विनिमयम् अकुरुताम्। उभौ नेतारौ सीमापारआतंकवादं सहितं आतंकवादस्य सर्वरूपाभिव्यक्तीनां निवारणाय स्वप्रतिबद्धतां पुनरपि प्रतिपादितवन्तौ।

विदेशमन्त्रालयस्य अनुसारेण भारतसाइप्रसयोः मध्ये चतुर्दशविषयेषु सहमतिः अभवत्। उभौ देशौ स्वसम्बन्धान् रणनीतिकसाझेदारीरूपे परिवर्तयितुं सहमतौ स्तः। अनेन उभयोर्देशयोः मध्ये व्यापारः सुदृढः भविष्यति तथा सुरक्षाक्षेत्रे अपि उभौ देशौ सहयोगं करिष्यतः।

आतंकवादविरोधाय उभौ देशौ संयुक्तकार्यसमूहस्य गठनं करिष्यतः। साइप्रसदेशः भारतस्य हिन्दप्रशान्तमहासागरीयपहलायां सम्मिलितुं निर्णयं कृतवान्। भारतं अत्याधुनिकस्वदेशीयचलचिकित्सालयं भीष्मक्यूब इति साइप्रसदेशाय उपहाररूपेण दास्यति। उभौ देशौ आगामिपञ्चवर्षाणां कृते रक्षासहयोगस्य मार्गचित्रं निर्मितवन्तौ।

उभयोर्देशयोः मध्ये राजनयिकप्रशिक्षणम्, उच्चशिक्षा, अनुसंधानम्, सांस्कृतिकआदानप्रदानम्, सहयोगः, नवोन्मेषः, प्रौद्योगिकी इत्यादिषु विषयेषु समझौतास्मरणपत्रेषु हस्ताक्षरं जातम्। उभौ देशौ अन्वेषणरक्षणक्षेत्रे अपि सहयोगं करिष्यतः। उभयोर्देशयोः मध्ये साइबरसुरक्षा तथा राजनयिकसंवादस्य अपि स्थापना भविष्यति। उभौ देशौ मईमासस्य अष्टादशदिनाङ्के भारतसाइप्रसस्पेसदिवसं आयोजितवन्तौ तथा मुम्बईनगरे साइप्रसवाणिज्यकेन्द्रस्य उद्घाटनम् अपि जातम्।

वार्तानन्तरं उभौ नेतारौ संयुक्तवक्तव्यं प्रदत्तवन्तौ। तस्मिन् प्रधानमन्त्री मोदी अवदत् यत् भारतसाइप्रसयोः मध्ये वर्धमानविश्वासः तथा भारतयूरोपीयसङ्घमुक्तव्यापारसम्झौता नवाः संभावनाः उद्घाटितवान्। उभौ देशौ आगामिपञ्चवर्षेषु साइप्रसदेशात् भारते निवेशं पुनः द्विगुणीकर्तुं लक्ष्यं धारयित्वा अग्रे गमिष्यतः। तेन सम्बन्धानां रणनीतिकसाझेदारीरूपे परिवर्तनस्य घोषणापि कृता।

प्रधानमन्त्री अवदत् यत् गतदशवर्षेषु साइप्रसदेशात् भारते निवेशः प्रायः द्विगुणितः जातः, यः उभयोर्देशयोः मध्ये वर्धितविश्वासस्य प्रतीकः अस्ति। तेन उक्तं यत् भारतयूरोपीयसङ्घमुक्तव्यापारसम्झौतेन नवाः आर्थिकसंभावनाः उत्पन्नाः। एतासां अवसराणां लाभं गृह्णन्तौ उभौ देशौ आगामिपञ्चवर्षेषु निवेशं पुनः द्विगुणीकर्तुं लक्ष्यं स्वीकृतवन्तौ।

तेन उक्तं यत् भारतसाइप्रससम्बन्धाः कालपरीक्षायां पुनः पुनः सफलाः सिद्धाः। रणनीतिकसाझेदारीरूपे परिवर्तनात् एतेषां सम्बन्धानां नूतनम् अभिलाषं तथा नूतना गतिः प्राप्ता भविष्यति। उभौ देशौ सम्बन्धान् अधिकं सुदृढीकर्तुं माइग्रेशनगतिशीलतासम्झौताय तथा सामाजिकसुरक्षासम्झौताय अपि सहमतिं कृतवन्तौ। तदतिरिक्तं उच्चशिक्षा संस्कृतिक्षेत्रयोः अपि सम्झौताः क्रियमाणाः सन्ति।

प्रधानमन्त्री अवदत् यत् भारतयूरोपयोः सम्बन्धाः नूतनस्वर्णिमयुगं प्रति प्रविशन्ति। अस्मिन् समये साइप्रसदेशः यूरोपीयसङ्घपरिषदः अध्यक्षतां स्वीकुर्वन् भारतस्य समग्रयूरोपस्य च मध्ये महत्त्वपूर्णनिवेशप्रवेशद्वाररूपेण उदेति।

वैश्विकविषयेषु चर्चां निर्दिशन् मोदी अवदत् यत् यूक्रेनविषये वा पश्चिमएशियाविषये वा भारतं संघर्षस्य शीघ्रसमापनाय शान्तिस्थापनप्रयत्नानां समर्थनं निरन्तरं करिष्यति। वर्धमानवैश्विकचुनौतिनिवारणाय वैश्विकसंस्थासु शीघ्रमहत्त्वपूर्णसुधाराः अपि आवश्यकाः सन्ति।

संयुक्तवक्तव्ये साइप्रसदेशस्य राष्ट्रपतिः निकोसक्रिस्टोडौलाइड्स अवदत् यत् साइप्रसदेशः भारतस्य वर्धमानवैश्विकभूमिकायाः समर्थनं करोति। सुरक्षापरिषदि भारतस्य यथोचितस्थानं भवितव्यम्। वयं साइप्रसस्य स्वातन्त्र्यसार्वभौमत्वक्षेत्रीयअखण्डतायै भारतस्य अटूटसमर्थनाय धन्यवादं ज्ञापयामः।

तेन उक्तं यत् साइप्रसदेशः भारतयूरोपयोः मध्ये विश्वसनीयस्थिरविश्वस्तसेतुरूपेण कार्यं कर्तुं विशिष्टतया समर्थः अस्ति। अयं सेतुः यूरोपीयसङ्घपूर्वभूमध्यसागरव्यापकपश्चिमएशिययोः मध्ये सेतुरूपेण कार्यं करिष्यति। भूराजनीतिकअनिश्चिततायाः अस्मिन् काले तस्य दृढविश्वासः अस्ति यत् यूरोपीयसङ्घभारतयोः मध्ये सहकारिता अधिका सुदृढा भवेत्। साइप्रसभारतसम्बन्धाः समानऐतिहासिकानुभवान् समानमूल्यानि च आधृत्य स्थिताः सन्ति।

तेन उक्तं यत् उभयोर्देशयोः सम्बन्धाः रणनीतिकदृष्टिकोणेन अधुना दृढसाझेदारीरूपे परिणताः। एषा साझेदारी सुरक्षा, रक्षा, प्रौद्योगिकी, नवोन्मेषः, सामुद्रिकसहयोगः, शिक्षा, आर्थिकसम्पर्कः इत्यादिषु प्रमुखक्षेत्रेषु पूर्वमेव ठोसपरिणामान् प्रददाति।

उल्लेखनीयम् अस्ति यत् साइप्रसदेशस्य राष्ट्रपतिः चतुर्दिवसीयराजकीययात्रायां भारते आगतः अस्ति। सः पूर्वं मुम्बईनगरं गतवान्। ह्यः तस्य दिल्लीनगरागमनम् अभवत्। अद्य सः राष्ट्रपितुः महात्मागान्धेः समाधिस्थलं गत्वा श्रद्धासुमनानि अर्पितवान्।

-------------

Hindusthan Samachar / Dheeraj Maithani