दण्डवत्-यात्रया भारतस्य वैद्यनाथधामतः मनोजः १९८-दिनेषु नेपालं प्राप्तवान्, पशुपतिनाथ-मन्दिरस्य दर्शनं करिष्यति
काठमाण्डू-नगरम्, २२ मे-मासः (हि.स.)। बिहार-प्रदेशस्य निवासी ५४-वर्षीयः मनोज-कुमार-यादवः झारखण्डस्य वैद्यनाथधामतः (बाबाधामतः) प्रायः ६०० किलोमीटर-परिमितां दूरीं षट्-मास-अष्टादश-दिनेषु पूर्णीकृत्य स्वलक्ष्यस्य समीपं प्राप्तवान्। दण्डवत्-यात्रायाः संक
वैद्यनाथधाम से पशुपतिनाथ तक की यात्रा


काठमाण्डू-नगरम्, २२ मे-मासः (हि.स.)। बिहार-प्रदेशस्य निवासी ५४-वर्षीयः मनोज-कुमार-यादवः झारखण्डस्य वैद्यनाथधामतः (बाबाधामतः) प्रायः ६०० किलोमीटर-परिमितां दूरीं षट्-मास-अष्टादश-दिनेषु पूर्णीकृत्य स्वलक्ष्यस्य समीपं प्राप्तवान्। दण्डवत्-यात्रायाः संकल्पं गृहीत्वा गृहात् निर्गतः यादवः अत्यन्तं प्रसन्नः दृश्यते। सः पशुपतिनाथ-मन्दिरस्य दर्शनं कृत्वा अस्याः धार्मिक-यात्रायाः समापनं करिष्यति।

सः अद्य काठमाण्डू-नगरस्य जडीबुटी-क्षेत्रे प्रविष्टवान्। यादवः अवदत् यत् सः अत्यन्तं मन्दगत्या, किन्तु निरन्तर-गतिना अत्रपर्यन्तं यात्रां सम्पन्नवान्। सः प्रतिदिनं प्रायः त्रि-किलोमीटर-परिमितं दण्डवत् गतवान्। कठिन-जलवायुः, शारीरिक-क्लान्तिः, मार्गस्य विविधाः चुनौतयः च सन्ति स्म, तथापि सः स्वीयां यात्रां निरन्तरं प्रचलितवान्।

यादवः अवदत् यत् सः शनिवासरे काठमाण्डू-नगरस्य गौशाला-क्षेत्रे विश्रामं करिष्यति। रविवासरस्य प्रातःकाले पशुपतिनाथ-मन्दिरे स्वीयायात्रायाः औपचारिक-समापनं करिष्यति।

Hindusthan Samachar / Divya Ranjan