राष्ट्रसेविकासमितेः वरिष्ठकार्यकर्त्री रुक्मिणी-अक्का इत्यस्याः निधनम्
राष्ट्रसेविकासमित्याः पूर्व-अखिलभारतीय-सहकार्यवाहिका रुक्मिणी-अक्का (९८) इत्यस्याः गुरुवासरस्य रात्रौ बेंगलुरुनगरे स्वनिवासस्थाने निधनम् अभवत्। सा वयोसम्बद्धाभिः स्वास्थ्यसमस्याभिः पीड्यमाना आसीत्। अद्य मध्याह्ने एकवादनपर्यन्तं तस्याः निवासस्थाने प
ರುಕ್ಮಿಣಿ ಅಕ್ಕ ಸಂಗ್ರಹ ಚಿತ್ರ


राष्ट्रसेविकासमित्याः पूर्व-अखिलभारतीय-सहकार्यवाहिका रुक्मिणी-अक्का (९८) इत्यस्याः गुरुवासरस्य रात्रौ बेंगलुरुनगरे स्वनिवासस्थाने निधनम् अभवत्। सा वयोसम्बद्धाभिः स्वास्थ्यसमस्याभिः पीड्यमाना आसीत्। अद्य मध्याह्ने एकवादनपर्यन्तं तस्याः निवासस्थाने पार्थिवशरीरस्य अन्तिमदर्शनं कर्तुं शक्यते। ततः परं हरिश्चन्द्रघाट-रुद्रभूमौ तस्याः अन्त्यसंस्कारः करिष्यते।

रुक्मिणी-अक्कायाः निधनस्य प्रसङ्गे शोभा करंदलाजे शोकं व्यक्तवती। सा उक्तवती— “राष्ट्रसेविकासमित्याः पूर्व-अखिलभारतीय-सहकार्यवाहिकायाः रुक्मिणी-अक्का इत्यस्याः निधनात् महान् दुःखानुभवः जातः। तया वन्दनीया मौसीजी-केलकरतः आरभ्य वर्तमाननेतृत्वपर्यन्तं समितेः सर्वैः प्रमुखनेतृभिः सह निकटतया कार्यं कृतम्।”तया उक्तं यत् रुक्मिणी-अक्का स्वसमग्रजीवनं भारतीयसंस्कृतेः, हिन्दुत्वस्य, महिलासशक्तिकरणस्य च सेवायै समर्पितवती। समितौ सा मार्गदर्शिकाशक्तिरूपेण प्रेरणादायिनी व्यक्तित्वारूपेण च आसीत्। महिलानां बौद्धिक-शारीरिक-मानसिकविकासाय सा निरन्तरं कार्यं कृतवती। शोभा करंदलाजे उक्तवती यत् राष्ट्रसेविकासमित्याः सुदृढीकरणे रुक्मिणी-अक्का इत्यस्याः योगदानम् अमूल्यम् आसीत्। महिलाः स्वावलम्बिन्यः सशक्ताश्च भवन्तु इति उद्देश्येन तया आजीवनम् अथकप्रयत्नाः कृताः। राष्ट्रसेवायै समाजसेवायै च समर्पितं तस्याः जीवनम् अग्रिमवंशानां कृते प्रेरणादायकं भविष्यति।

Hindusthan Samachar / Divya Ranjan