आत्मनिर्भरं भवितुं मार्गं प्रदर्शयति गौमाता
सन्तोष-मधुपः कोलकाता-नगरम्, २२ मे-मासः (हि.स.)। उषःकाले ब्रह्ममुहूर्ते यदा सूर्यस्य प्रथम-किरणाः धरित्रीं स्पृशन्ति, जीव-जगतः निद्रा च भङ्गं भवति, तस्मिन् समये झारखण्डस्य चाकुलिया-स्थितायां गोशालायां प्रातःकालात् एव व्यस्ततायाः वातावरणं दृश्यते। क
झारखंड के चाकुलिया स्थित गौ सेवा केंद्र में गांव को आत्मनिर्भर बनाने की मुहिम के तहत चलाए जा रहे विभिन्न अभियान


सन्तोष-मधुपः

कोलकाता-नगरम्, २२ मे-मासः (हि.स.)। उषःकाले ब्रह्ममुहूर्ते यदा सूर्यस्य प्रथम-किरणाः धरित्रीं स्पृशन्ति, जीव-जगतः निद्रा च भङ्गं भवति, तस्मिन् समये झारखण्डस्य चाकुलिया-स्थितायां गोशालायां प्रातःकालात् एव व्यस्ततायाः वातावरणं दृश्यते। कुत्रचित् गोमयेन जैविक-खादस्य निर्माणं क्रियते, अन्यत्र च गोमूत्रेण हर्बल-औषधीनां निर्माणं विधीयते। एषा सामान्य-गोशाला नास्ति, अपितु देशस्य ग्रामीण-अर्थव्यवस्थायां परिवर्तनस्य स्वप्नानां प्रयोगशाला इति कथनं अधिकं समीचीनं भविष्यति।

वस्तुतः एतत् तत् स्वप्नम् अस्ति, यत् भारतं तस्य मूलाधारं प्रति पुनः नेतुम् इच्छति, यत् देशस्य मृत्तिकां रासायनिक-उर्वरकाणां दुष्प्रभावेभ्यः मुक्तां कर्तुम् इच्छति, तथा ग्रामेषु निवसद्भ्यः यूनेभ्यः स्वगृहस्य समीपे एव रोजगारं प्रदातुम् लक्ष्यं धारयति। “गोसेवा-परिवार” इत्यस्य प्रयासैः चाकुलिया-प्रदेशे मन्दगत्या एकः आर्थिक-सामाजिक-परिवर्तनस्य प्रवाहः आकारं गृह्णाति, यस्य मुख्य-प्रेरणाशक्तिः अस्माकं सनातन-संस्कृतेः आधारशिला ‘गौमाता’ अस्ति।

सामान्यतया ‘गोशाला’ इति नाम श्रुत्वा जनानां मनसि दान-निर्भराणां रोगग्रस्त-वृद्ध-पशूनाम् आश्रय-स्थलस्य चित्रं जायते। किन्तु चाकुलिया-प्रदेशे “गोसेवा-परिवार” इत्यस्य निःशुल्क-आवासीय-प्रशिक्षण-केन्द्रं एतां धारणां शीघ्रं परिवर्तयति। अस्य उद्देश्यं स्पष्टम् अस्ति—गोशालाः परेषां दानेषु निर्भराः न स्युः, अपितु स्वयमेव लाभप्रद-उत्पादन-केन्द्राणि भूत्वा रोजगारस्य केन्द्राणि च विकसितानि भवेयुः।

अत्र देशस्य विविध-प्रदेशेभ्यः आगताः यूनः शिक्ष्यन्ते यत् गोमयस्य गोमूत्रस्य च आधारेण कथम् आत्मनिर्भर-अर्थव्यवस्था निर्मातुं शक्यते। अस्मिन् निःशुल्क-आवासीय-शिविरे बोध्यते यत् गोमयं गोमूत्रं च केवलम् अपशिष्ट-पदार्थौ न स्तः, अपितु ग्रामीण-अर्थव्यवस्थायाः वास्तविक-मेरुदण्डौ स्तः। एताभ्यां जैविक-उर्वरक:, कीटनाशकानि, बायोगैसः, विविध-प्रकारकाः हर्बल-सौन्दर्य-प्रसाधनानि च निर्मातुं शक्यन्ते, येषां वर्तमानकाले विपण्यां महती याचना वर्तते।

अस्य अभियानस्य संचालकानां मतम् अस्ति यत् भारतस्य विकासस्य वास्तविक-कुञ्जिका ग्रामेषु एव निहिता अस्ति। ग्रामाणाम् आत्मनिर्भरत्वाय “गोसेवा-परिवार” पञ्च प्रमुख-क्षेत्रेषु कार्यं करोति। प्रथमम्—रासायनिक-उर्वरकाणाम् उपयोगं न्यूनीकृत्य प्राकृतिक-पद्धत्या भूमेः उर्वरतां पुनः प्रत्यानेतुं, येन कृषकाणां व्यय-भारः न्यूनः भवेत्।

द्वितीयम्—आयुर्वेदस्य पञ्चगव्यस्य च समन्वयेन ग्रामीण-स्वास्थ्य-सेवानां प्रोत्साहनम्। तृतीयम्—गोबर-गैस-माध्यमेन ग्रामाणाम् ऊर्जा-क्षेत्रे आत्मनिर्भरत्वं साधयितुम्। चतुर्थम्—गोमयेन गोमूत्रेण च विविध-उपयोगि-पदार्थानां निर्माणेन ग्रामीण-रोजगारस्य सृजनम्। पञ्चमम्—वैज्ञानिक-पद्धत्या पशुपालनस्य गो-औषधीनां च प्रचार-प्रसारः।

देशे प्रायः विंशति-सहस्राधिकाः गौशालाः सन्ति। यदि प्रत्येक-गोशाला स्वस्य समीपस्थानां त्रिंशत्-ग्रामाणां उत्तरदायित्वं स्वीकरोति, तर्हि देशस्य ग्रामीण-अर्थिक-संरचनायां व्यापकः परिवर्तनः सम्भवः। भारतस्य प्रायः सर्वे ग्रामाः आत्मनिर्भरत्वस्य दिशि अग्रे गन्तुं शक्नुवन्ति। “गोसेवा-परिवार” एतामेव चिन्तन-परम्पराम् अग्रे नयति।

यदा रोजगार-अभावेन ग्रामाणां यूनः अन्य-राज्यानि अपरिचित-नगराणि च प्रति पलायनं कुर्वन्ति, तदा “गोसेवा-परिवार” इत्यस्य एष: प्रयत्न: तान् स्वग्रामं प्रति पुनरागन्तुं आह्वयति। अस्मात् प्रशिक्षण-केन्द्रात् प्रशिक्षिताः युवकाः देशस्य विविध-ग्रामेषु स्थितासु गोशालासु कार्यकर्तारः रूपेण नियुक्ताः भवितुं शक्नुवन्ति।

सेवा-भावनया सह योग्यता-दक्षतयोः आधारेण तेभ्यः पञ्चदश-सहस्र-रूप्यकात् पञ्चविंशति-सहस्र-रूप्यक-पर्यन्तं मानदेयमपि प्राप्तुं शक्यते। अस्य अभियानस्य उद्देश्यं “सेवया आत्मनिर्भरता” इति मार्गस्य प्रदर्शनम् अस्ति।

चाकुलिया-प्रदेशस्य एषः आदर्शः अधुना देशस्य सर्वासु गोशालासु प्रसारयितुं “गोसेवा-परिवार” सज्जः अस्ति। यदि का अपि गोशाला स्वयम् आत्मनिर्भरां कर्तुम् इच्छति, तर्हि एषा संस्था तस्याः साहाय्यार्थं अग्रे आगन्तुं सज्जा अस्ति। अत्रतः प्रशिक्षित-कार्यकर्तॄन् सम्प्रेष्य अन्याः गोशालाः अपि स्वावलम्बिन्यः कर्तुं प्रयासः करिष्यते।

“गोसेवा-परिवार” इत्यस्य एष: प्रयत्न: केवलं गोपालन-कार्ये सीमिता नास्ति। एषा कथा आत्मविश्वासयुक्तस्य भारतस्य अस्ति, यः स्वीयाः ग्रामीण-परम्पराः वैज्ञानिक-दृष्टिकोणेन सह संयोज्य नूतनां दिशं प्रदर्शयति। गौमाता केवलम् आस्था-विश्वासयोः प्रतीका न, अपितु वास्तविकतया ‘आत्मनिर्भर-भारतस्य’ दृढा आधारशिला भवति।

Hindusthan Samachar / Divya Ranjan