मन्त्रिपरिषदः सभायां ‘विकसित-भारतस्य’ दृष्टिकोणस्य विषये चर्चा अभवत् : प्रधानमन्त्री मोदी
नव-दिल्ली, २२ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे उक्तवान् यत् मन्त्रिपरिषदः सभायां ‘ईज-ऑफ-लिविङ्ग्’, ‘ईज-ऑफ-डूइङ्ग्-बिजनेस’ तथा सुधाराणां प्रवर्धनसम्बद्धेषु विविधेषु विषयेषु व्यापक-चर्चा अभवत्। प्रधानमन्त्री मोदी ‘एक्स’ इति साम
मंत्रिपरिषद की बैठक में प्रधानमंत्री नरेन्द्र मोदी और अन्य मंत्री


नव-दिल्ली, २२ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे उक्तवान् यत् मन्त्रिपरिषदः सभायां ‘ईज-ऑफ-लिविङ्ग्’, ‘ईज-ऑफ-डूइङ्ग्-बिजनेस’ तथा सुधाराणां प्रवर्धनसम्बद्धेषु विविधेषु विषयेषु व्यापक-चर्चा अभवत्।

प्रधानमन्त्री मोदी ‘एक्स’ इति सामाजिक-माध्यमे लिखितवान् यत् गुरुवासरे सम्पन्ना मन्त्रिपरिषदः सभा अत्यन्तं सार्थका आसीत्। सभायां मन्त्रिणां मध्ये विविध-विषयेषु विचाराणां तथा श्रेष्ठ-कार्यप्रणालीनां आदान-प्रदानम् अभवत्। तेन उक्तं यत् सामान्य-जनानां जीवनं सुकरं कर्तुं, व्यापारं सुगमं विधातुं तथा सुधाराणां गतिं तीव्रां कर्तुं विशेष-बलं प्रदत्तम्, येन ‘विकसित-भारतस्य’ सामूहिक-संकल्पः साकारः भवेत्।

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्र-मोदी गुरुवासरस्य सायंकाले मन्त्रिपरिषदः सभायाः अध्यक्षतां कृतवान् तथा सर्वेषां मन्त्रिणां कार्य-प्रतिवेदनस्य समीक्षाम् अपि कृतवान्। ‘सेवा-तीर्थे’ सायं पञ्चवादने आरब्धा उच्चस्तरीया सभा प्रायः सार्ध-चतुर्होरापर्यन्तं प्रचलिता। अस्यां दीर्घकालिकायां सभायां शासन-सुधारः, प्रशासनिक-दक्षता तथा सर्वकारस्य दीर्घकालिकस्य ‘विकसित-भारत-२०४७’ इति दृष्टिकोणस्य विषये विस्तरेण चर्चा अभवत्।

सभायां प्रायः नव मन्त्रिणः स्व-स्व-मन्त्रालयानां कार्यप्रणाली-विषये विस्तृत-प्रस्तुतीकरणं कृतवन्तः। तेन सह अनेक-मन्त्रिणां कार्यस्य समीक्षा अपि कृता। तथा च सर्वकारीय-योजनानां प्रभावी-क्रियान्वयनं, समन्वयः, भविष्य-रणनीतिः इत्यादिषु विषये मन्त्रिभिः सह विचार-विमर्शः अभवत्। अस्मिन् मन्त्रिणां गत-द्विवर्षीय-कार्यकालस्य विवरणस्य तथा प्रतिवेदन-पत्रस्य समीक्षा अपि कृता। विशेषतः पश्चिम-एशिया-प्रदेशस्य वर्तमान-स्थितिं दृष्ट्वा सर्वकारस्य आर्थिक-नीतिषु, विकास-परियोजनासु तथा भविष्य-मार्गचित्रे विस्तरेण चर्चा अभवत्।

Hindusthan Samachar / Divya Ranjan