Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २२ मे-मासः (हि.स.)। मध्यप्रदेशे मत्स्यजीविकाकल्याण-मत्स्यविकासविभागेन निवेशस्य रोजगारावसराणां च वृद्ध्यर्थम् अद्य शुक्रवासरे भोपालनगरे “हितधारक-सम्मेलनम्” आयोज्यते। अस्मिन् सम्मेलने मत्स्यजीविकाकल्याण-मत्स्यविकासविभागस्य मन्त्री, कृषि-उत्पादन-आयुक्तः, विभागीय-सचिवः च विशेषरूपेण उपस्थिताः भविष्यन्ति।मत्स्यजीविकाकल्याण-मत्स्यविकास-राज्यमन्त्री नारायणसिंहपंवारः सूचनां दत्त्वा उक्तवान् यत् मोहनयादवस्य नेतृत्वे अस्माकं सर्वकारस्य विभागस्य च मुख्यलक्ष्यम् अग्रिमवर्षेषु मत्स्योत्पादनस्य तेन सम्बद्धव्यापारस्य च द्विगुणीकरणम् अस्ति। एतस्य लक्ष्यस्य सिद्ध्यर्थं प्रदेशे “हितग्राही-नमूना” तथा “उद्यमी-नमूना” इत्येतयोः प्रमुखतया कार्यान्वयनं क्रियते।
तेन उक्तं यत् प्रदेशस्य मत्स्योद्योगे निजीक्षेत्रस्य सहभागितावृद्ध्यर्थं निवेशकाः आमन्त्र्यन्ते। अनेन न केवलं राज्ये नवीननिवेशः आगमिष्यति, अपि तु यूनां मत्स्यजीविसमुदायस्य च कृते रोजगारस्य नवीनावसराः अपि उत्पत्स्यन्ते।तेन पुनरुक्तं यत् अस्माकं प्रमुखलक्ष्यं स्थानीयमत्स्यजीविनां प्रत्यक्षलाभप्रदानम् अस्ति। एतदर्थं “हितग्राही-नमूना” तथा निर्यातप्रोत्साहनाय “उद्यमी-नमूना” इत्यस्य उपरि कार्यं क्रियते। मन्त्री नारायणसिंहपंवारः अवदत् यत् पारम्परिकपद्धतीनां सह “केज-कल्चर” इत्यादयः वैज्ञानिक-प्रविधयः अपि स्वीकृताः सन्ति। एतत् सम्मेलनं निवेशकानां, उद्यमिनां, मत्स्यपालकानां च कृते समानमञ्चं प्रदास्यति।
Hindusthan Samachar / Divya Ranjan