भोपाले अद्य अन्ताराष्ट्रिय-बिग-कैट-एलायंस इत्यस्य पूर्व-सम्मेलनस्य केन्द्रीय-मन्त्री भूपेन्द्रः यादवः शुभारम्भं करिष्यति
- जैव-विविधता-संरक्षणे बिग-कैट-संवर्धने च भविष्यति मन्थनम् भोपालम्, 22 मईमासः (हि.स.)। अन्ताराष्ट्रिय-जैव-विविधता-दिवसस्य २०२६ तमस्य वर्षस्य अवसरे अद्य मध्यप्रदेशस्य राजधान्यां भोपाले अन्ताराष्ट्रिय-बिग-कैट-एलायन्स इत्यस्य (आईबीसीए) पूर्व-सम्मेलन
केन्द्रीय मंत्री भूपेन्द्र यादव और मुख्यमंत्री मोहन यादव (फाइल फोटो)


- जैव-विविधता-संरक्षणे बिग-कैट-संवर्धने च भविष्यति मन्थनम्

भोपालम्, 22 मईमासः (हि.स.)। अन्ताराष्ट्रिय-जैव-विविधता-दिवसस्य २०२६ तमस्य वर्षस्य अवसरे अद्य मध्यप्रदेशस्य राजधान्यां भोपाले अन्ताराष्ट्रिय-बिग-कैट-एलायन्स इत्यस्य (आईबीसीए) पूर्व-सम्मेलनस्य आयोजनं क्रियते। मुख्यमन्त्री डॉ. मोहनयादवस्य मुख्यातिथ्ये भवमानस्य अस्य कार्यक्रमस्य शुभारम्भः केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्री भूपेन्द्रयादवस्य अध्यक्षतायां भविष्यति।

जनसम्पर्क-अधिकारी केके-जोशी अकथयत् यत् केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्रालयेन, राष्ट्रीय-जैव-विविधता-प्राधिकरणेन, मध्यप्रदेश-शासनेन, अन्ताराष्ट्रिय-बिग-कैट-एलायन्स इत्यनेन, भारतीय-वन-प्रबन्धन-संस्थानेन च संयुक्तरूपेण एषः कार्यक्रमः आयोज्यते। भारतीय-वन-प्रबन्धन-संस्थानस्य (आईआईएफएम) सभागारे भवमाने अस्मिन् पूर्व-सम्मेलने केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-राज्यमन्त्री कीर्तिवर्धनसिंहः मध्यप्रदेशस्य वन-पर्यावरण-राज्यमन्त्री दिलीपः अहिरवारश्च विशिष्टातिथिरूपेण उपस्थितौ भविष्यतः।

तेन उक्तं यत् कार्यक्रमात् पूर्वं केन्द्रीय-मन्त्री भूपेन्द्रयादवः मुख्यमन्त्री डॉ. यादवश्च वन-विभागेन आयोजितानां विंशतेः बाइकयानानाम् एकस्य च रक्षणट्रकयानस्य ध्वजं प्रदर्श्य प्रस्थापयिष्यतः। कार्यक्रमे जैव-विविधता-संरक्षणस्य, वन्यजीव-संवर्धनस्य, विशेषरूपेण च बिग-कैट-संरक्षणस्य विविधेषु आयामेषु विचार-विमर्शः करिष्यते। अन्ताराष्ट्रिय-बिग-कैट-एलायन्स इत्यस्य महानिदेशकः डॉ. एस.पी. यादवः आईबीसीए इत्यस्य गतिविधीनाम् उद्देश्यानाञ्च विषये प्रस्तुतिं दास्यति। तेन सह मध्यप्रदेश-वन-विभागेन भारते व्याघ्र-पुनर्स्थापन-अभियानस्य विषये विशेषा प्रस्तुतिरपि दास्यते।

आईईसी-सामग्र्याः विमोचनं भविष्यति

कार्यक्रमे जैव-विविधता-संरक्षणसम्बद्धानाम् अनेकेषां प्रकाशनानां डिजिटल- उपक्रमानाञ्च विमोचनं लोकार्पणञ्च भविष्यति। तेषु डाकचिटिका, 'इण्डियाज-बायोडायवर्सिटी-रिपोर्ट-२०२६', इति नागोया-प्रोटोकॉलविषये भारतस्य प्रथमं राष्ट्रीयं प्रतिवेदनम्, एबीएस-एण्ड-टू-एण्ड-वेब-पटलश्च सम्मिलिताः सन्ति। तेन सह एक्सेस-एण्ड-बेनिफिट-शेयरिंग इत्यस्य, अमरकण्टक-बायोडायवर्सिटी-हेरिटेज-साइट इत्यस्य, मध्यप्रदेशस्य पवित्र-वनानां च संरक्षणे आधारितानां चलचित्राणां प्रदर्शनमपि करिष्यते।

---------------

Hindusthan Samachar / अंशु गुप्ता