मध्यप्रदेशः -आयुषविभागस्य श्रम विभागस्य च मध्यमें अद्य सहमतिःहस्ताक्षर्यते
भोपालम्, 22 मईमासः (हि.स.)। मध्यप्रदेशस्य श्रमिकाणां तेषां परिवारजनानां च अधुना आयुर्वेद, होम्योपैथी तथा यूनानी चिकित्सायाः लाभः सुलभतया प्राप्यः भवेत्, अस्यैव उद्देशस्य पूर्त्यर्थम् आयुषविभागस्य श्रमविभागस्य च मध्ये अद्य शुक्रवासरे आयुषचिकित्सास
आयुष विभाग


भोपालम्, 22 मईमासः (हि.स.)।

मध्यप्रदेशस्य श्रमिकाणां तेषां परिवारजनानां च अधुना आयुर्वेद, होम्योपैथी तथा यूनानी चिकित्सायाः लाभः सुलभतया प्राप्यः भवेत्, अस्यैव उद्देशस्य पूर्त्यर्थम् आयुषविभागस्य श्रमविभागस्य च मध्ये अद्य शुक्रवासरे आयुषचिकित्सासेवायाः एकीकरणार्थं समझौताज्ञापनपत्रे हस्ताक्षरकार्यक्रमः भविष्यति।

जनसम्पर्काधिकारी राजेश दाहिमा इत्यनेन प्रदत्ता सूचनानुसारं मन्त्रालयस्थिते सभाकक्षे प्रातः ११ वादने आयोजितस्य अस्य कार्यक्रमस्य मुख्यातिथिः पंचायत्, ग्रामीणविकास तथा श्रममन्त्री प्रह्लादसिंहपटेलः भविष्यति। कार्यक्रमस्य अध्यक्षतां उच्चशिक्षा, तकनीकीशिक्षा तथा आयुषमन्त्री इन्दरसिंहपरमारः करिष्यति। कार्यक्रमे आयुषविभागस्य प्रमुखसचिवः शोभितजैनः तथा श्रमविभागस्य सचिवः रघुराजएमआरः सहित आयुष तथा श्रमविभागयोः अधिकारिगणाः उपस्थिताः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani