नीति-आयोगस्य प्रतिवेदने प्रकाशितः छत्तीसगढ़स्य उसूर-विकासखण्डः, देशे द्वितीयं स्थानं प्राप्तम्
रायपुरम् 22 मईमासः (हि.स.)।छत्तीसगढ़स्य कृते एका महत्त्वपूर्णा गौरवपूर्णा च उपलब्धिः आगता अस्ति। नीति-आयोगेन प्रकाशितायाः आकाङ्क्षी-खण्डानां चैम्पियन्स-ऑफ-द-क्वार्टर (अक्टूबर-दिसम्बर-२०२५) प्रतिवेदने बीजापुर-जनपदस्य उसूर-विकासखण्डः केन्द्रिय-क्षे
नीति आयाेग की रिपाेर्ट 


रायपुरम् 22 मईमासः (हि.स.)।छत्तीसगढ़स्य कृते एका महत्त्वपूर्णा गौरवपूर्णा च उपलब्धिः आगता अस्ति। नीति-आयोगेन प्रकाशितायाः आकाङ्क्षी-खण्डानां चैम्पियन्स-ऑफ-द-क्वार्टर (अक्टूबर-दिसम्बर-२०२५) प्रतिवेदने बीजापुर-जनपदस्य उसूर-विकासखण्डः केन्द्रिय-क्षेत्रे समग्रे देशे द्वितीयं स्थानं प्राप्तवान्। एषा उपलब्धिः राज्यस्य दूरस्थेषु आदिवासी-बहुलेषु च क्षेत्रेषु जायमानानां विकास-कार्याणां महती सफलतारूपेण दृश्यते।

अस्याम् ऐतिहासिकायाम् अभूतपूर्वायाञ्च उपलब्धौ छत्तीसगढ़स्य वन-जलवायु-परिवर्तन-मन्त्री तथा जनपदस्य प्रभारी-मन्त्री केदारकश्यपः अद्य शुक्रवासरे जनपदस्य नागरिकेभ्यः, जनपद-प्रशासनाय, विशेषतः स्वास्थ्य-विभागस्य सम्पूर्णदलाय च हार्दिकानि वर्धापनानि उज्ज्वलस्य भविष्यस्य शुभकामनाश्च प्रादात्।

मन्त्री केदारकश्यपः अवदत् यत् मुख्यमन्त्रिणः विष्णु-देव-सायस्य नेतृत्वे उसूर-विकासखण्डस्य एषा राष्ट्रीया सफलता अत्यन्तं गौरवशाली अस्ति। एतत् तस्य प्रत्यक्षं प्रमाणम् अस्ति यत् अस्माकं सर्वकारस्य नीतयः योजनाश्च अधुना प्रदेशस्य अन्तिमे प्रान्ते वसतः जनस्य पर्यन्तम् अपि पूर्णप्रामाणिकतया सम्प्राप्नुवन्ति। कठिनासु भौगोलिक-परिस्थितिषु अपि स्वास्थ्य-कर्मिभिः जनपद-प्रशासनेन च यत् समर्पणं दर्शितम् तत् सराहनीयम् अस्ति। अस्माकं संकल्पः बस्तरस्य प्रत्येकं ग्रामं पर्यन्तम् विकासस्य प्रकाशं प्रापयितुम् अस्ति।

तेन उक्तम् यत् पूर्वम् आधारभूत-सुविधाभ्यः दूरः अतिकठिनश्च मन्यमानः उसूर-विकासखण्डः अद्य देशाय विकासस्य आदर्शः अभवत्। अस्याः सफलतायाः वास्तविकं श्रेयः अस्माकं मूलस्तरस्य चिकित्सकेभ्यः, एएनएम-कर्मिभ्यः, आंगनबाड़ी-कार्यकर्तृभ्यः, मितानिन-भगिनीभ्यश्च गच्छति, यासां दिवारात्रं परिश्रमः अस्ति। स्वास्थ्य-सेवाः सुदृढाः कर्तुम् अस्माकं प्रयासः निरन्तरं चलिष्यति।

विकासस्य नवा कथा — कठोरेषु मानकेषु उसूरः उत्तीर्णः

नीति-आयोगेन स्वास्थ्य-सामाजिक-विकाससम्बद्धानां अनेकेषां महत्त्वपूर्णानां संकेतकानां आधारेण एतत् कठोरं मूल्याङ्कनं कृतम् आसीत्। तेषु उसूर-विकासखण्डेन उत्कृष्टं प्रदर्शनं कृतम्। मलेरिया, डेंगू, चेत्येषां संचारी-रोगाणाञ्च निवारणाय दूरवर्तिभ्यः वन-ग्रामेभ्यः पर्यन्तम् प्रभावशालीनि अभियानानि चालितानि।

सुरक्षितं मातृत्वम् — चिकित्सालयेषु संस्थागत-प्रसवस्य संख्यायाम् अभिलेखनीयवृद्धिः अभवत्, येन शिशु-मृत्युदरे मातृ-मृत्युदरे च महती न्यूनता आगता।

सशक्तं टीकाकरणम् — बालकानां गर्भिणी-महिलानाञ्च नियमित-परीक्षणेन टीकाकरणेन च सह गम्भीर-रोगेभ्यः रक्षणाय एचपीवी-टीकाकरणं मूलस्तरे सफलं जातम्।

असंचारी-रोगाणां परीक्षणम् — रक्तचाप-मधुमेह-कर्करोग-सदृशानां रोगाणां निःशुल्क-परीक्षणस्य उपचारस्य च सुविधा अधुना प्रत्येकं ग्रामे सुलभा अस्ति।

अग्रिमः संकल्पः — देशे प्रथमं स्थानं प्राप्तव्यम्

जिलाधिकारी विश्वदीपः मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी च मुख्यमन्त्रिणः विष्णु-देव-सायस्य प्रभारी-मन्त्रिणः केदारकश्यपस्य च प्रति कृतज्ञतां व्यक्तवन्तौ। तौ अवदताम् यत् एषा राष्ट्रीया उपलब्धिः समग्रजनपदस्य कृते महती प्रेरणा अस्ति। शासनस्य प्रशासनस्य च अग्रिमं लक्ष्यं स्वास्थ्य-सेवानां गुणवत्तां वर्धयित्वा आगामिषु त्रैमासिकेषु देशे प्रथमं स्थानं प्राप्तुम् अस्ति। तदर्थं मूलस्तरे कार्यम् अधिकतया त्वरितं जातम् अस्ति।

---------------

Hindusthan Samachar / अंशु गुप्ता