Enter your Email Address to subscribe to our newsletters

नवदेहली, 21 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी पञ्च-देश-यात्रातः प्रत्यागमनस्य तत्क्षणम् अनन्तरम् एव कार्यरतः दृष्टः। गुरुवासरे सायं तेन मन्त्रिपरिषदः सभायाः अध्यक्षता कृता, सर्वेषाञ्च मन्त्रिणां कार्यस्य प्रगतिपत्रस्य समीक्षा कृता।
गुरुवासरे सेवा-तीर्थे सायं प्रायः पञ्चवादने आरब्धा उच्चस्तरीया सभा प्रायः सार्ध-चतुर्होरापर्यन्तं प्रचलत्। मैराथन-सभायां शासन-सुदृढ़ीकरणस्य, प्रशासनिक-दक्षतायाः, सर्वकारस्य दीर्घकालिकस्य विकसित-भारत-२०४७ परिकल्पनायाः च विषये विस्तारेण चर्चा अभवत्।
सभायाः काले प्रायः नव मन्त्रिभिः स्वस्वमन्त्रालयानां कार्यस्य विस्तारेण प्रस्तुतिकरणं दत्तम्। तेन सह बहूनां मन्त्रिणां कार्यस्य समीक्षापि कृता। तेन सह सर्वकारी-योजनानाम् प्रभावशालिनः क्रियान्वयनस्य, समन्वयस्य, भाविन्याः रणनीतेश्च विषये मन्त्रिभिः सह विचार-विमर्शोऽपि कृतः। अस्मिन् मन्त्रिणां पूर्वतनस्य कार्यस्य लेखा-जोखा, द्विवर्षीयस्य च प्रगतिपत्रस्य समीक्षा कृता। विशेषतः पश्चिम-एशियादेशे वर्तमानस्य परिस्थितेः दृष्ट्या सर्वकारस्य आर्थिक-नीतीनां, विकास-परियोजनानाम्, भाविनश्च कार्ययोजनायाः विषये विस्तारेण चर्चा कृता।
सभायां विदेश-मन्त्रिणा प्रधानमन्त्री नरेन्द्रमोदिनः पञ्च-देश-यात्रायाः निष्कर्षात् सर्वान् मन्त्रिणः अवगतान् कृताः। विदेश-यात्रायां वर्तमानत्वात् अस्यां सभायां केन्द्रीय-मन्त्री राजनाथः सिंहः जेपी-नड्डाश्च उपस्थितौ नासताम्। शेषाः प्रायः सर्वे कैबिनेट-मन्त्रिणः राज्य-मन्त्रिणश्च उपस्थिताः आसन्।
उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्रमोदिना मन्त्रिपरिषदः सभा एकस्य वर्षस्य अनन्तरम् आहूता अस्ति। तदनन्तरं पूर्वतने वर्षे अर्थात् २०२५ तमे वर्षे एषा सभा आहूता आसीत्। अस्याः सभायाः अनन्तरं मन्त्रिमण्डले परिवर्तनस्य ऊहापोहः तीव्राः जाताः सन्ति। मन्यते यत् आगामिनि मासे मन्त्रिमण्डले परिवर्तनस्य सम्भावना अस्ति।
--------------------
Hindusthan Samachar / अंशु गुप्ता