Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 22 मईमासः (हि.स.)।
लोकसभा-अध्यक्षः ओम बिरला तथा गृहमन्त्री अमित शाह सहिताः अनेकाः नेतारः शुक्रवासरे समाजसुधारकं राजा राममोहन राय इत्येनं तस्य जयन्त्यां श्रद्धया नत्वा स्मृतवन्तः।
बिर्ला महोदयः एक्स्-पोस्ट् माध्यमेन उक्तवान् यत्— “भारतीय-नवजागरणस्य महान् पुरोधाः समाजसुधारकश्च राजा राममोहन राय इत्यस्मै कोटिशः नमांसि। राममोहनरायमहाभागेन सत्यं तर्कः शिक्षा वैज्ञानिकदृष्टिकोणश्च समाजपरिवर्तनस्य आधाररूपेण स्वीकृत्य भारतीयसमाजाय नूतना चेतना प्रदत्ता।
राममोहनरायमहाभागेन भारतीयसंस्कृतेः आधुनिकविचाराणां च मध्ये सम्यक् संतुलनं स्थापयित्वा तादृशस्य भारतस्य कल्पना कृता या विवेकशीला प्रगतिशीला मानवीयमूल्यैः परिपूर्णा च आसीत्। तस्य विचाराः भारतीयसमाजे नवजागरणस्य तां चेतनाम् उत्पादितवन्तः या अनन्तरं सामाजिकराष्ट्रीयान्दोलनानां नूतनां दिशां प्रदत्तवती।”
अमितशाहमहाभागः उक्तवान् यत् राममोहनरायमहाभागेन ब्रह्मसमाजस्य स्थापना कृत्वा सामाजिककुरीतयः अन्धविश्वासाः भेदभावश्च विरुद्धं जनाः जागरूकाः कृताः। शिक्षा सामाजिकसुधारः लोकप्रशासनक्षेत्रं च प्रति तस्य योगदानम् आधुनिकभारतस्य आधारशिलामपि दृढीकृतवान्।
“राममोहनरायस्य विचाराः आदर्शाश्च सदा राष्ट्रनिर्माणस्य सामाजिकजागृतेः च मार्गं प्रकाशितवन्तः भविष्यन्ति।”
शिक्षामन्त्री धर्मेन्द्र प्रधान उक्तवान् यत् राममोहनरायमहाभागेन शिक्षायाः प्रसारः आधुनिकचिन्तनस्य च सामाजिकजागरणस्य आधारत्वेन स्वीकृतः। तस्य जीवनम् अस्मान् ज्ञानस्य सुधारस्य प्रगतिशीलभारतस्य निर्माणस्य च कृते निरन्तरं अग्रे गन्तुं प्रेरयति।
केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराज सिंह चौहानः उक्तवान् यत् राममोहनरायमहाभागः समाजं रूढिभ्यः मुक्तं कृत्वा जागृतसमाजस्य निर्माणकर्ता भारतीयपुनर्जागरणस्य अग्रदूतः आसीत्। आधुनिकभारतस्य प्रमुखनिर्मातृषु तस्य अतुलनीयं योगदानं युगयुगान्तरं यावत् स्मरणीयं भविष्यति।
भारतीयजनतापक्षस्य अध्यक्षः नितिन नवीन उक्तवान् यत् समाजस्य कुप्रथानाम् उन्मूलने महिलाअधिकारसंरक्षणे शिक्षा सामाजिकसुधारक्षेत्रयोश्च तस्य योगदानम् अतुलनीयम् अस्ति। तस्य आदर्शाः विचाराश्च अस्मान् सशक्तसमरसजागरूकसमाजनिर्माणाय सदा प्रेरयन्ति।
सामाजिकन्यायाधिकारितामन्त्री वीरेन्द्र कुमार उक्तवान् यत् महिलाशिक्षायाः प्रसारे सामाजिककुरीतीनां विरुद्धं च राममोहनरायस्य साहसिकाः ऐतिहासिकप्रयत्नाः भारतीयसमाजाय नूतनां दिशं प्रदत्तवन्तः। तस्य दूरदर्शीचिन्तनं मानवतासमानतयोः संदेशश्च अद्यापि समाजं जागरूकं प्रेरितं च करोति।
---------------
Hindusthan Samachar / Dheeraj Maithani