Enter your Email Address to subscribe to our newsletters

लखनऊ, 22 मईमासः (हि.स.)।
राष्ट्रीय-स्वयंसेवक-सङ्घस्य तत्त्वावधाने आयोजितः कार्यकर्ता-विकास-वर्ग-प्रथम-सामान्यः शुक्रवासरे सरस्वती-कुञ्ज-निरालानगरे दीप-प्रज्वलनेन पुष्पाञ्जलिना च सह प्रारब्धः। उद्घाटन-सत्रे क्षेत्र-प्रचारकः अनिलः, वर्गस्य सर्वाधिकारी सरदार-स्वर्ण-सिंहः तथा क्षेत्र-सङ्घचालकः कृष्ण-मोहनः दीपं प्रज्वाल्य वर्गस्य शुभारम्भं कृतवन्तः।
अस्मिन् अवसरे क्षेत्र-प्रचारकः उक्तवान् यत् वर्गः केवलं प्रशिक्षणस्य स्थानं नास्ति, अपितु साधना-स्थली वर्तते एवं प्रत्येकः शिक्षार्थी साधकः अस्ति। भारतीय-परम्परायां साधनायै त्यागः, समर्पणं, कठोरता च आवश्यकी मन्स्यते।
पूर्वी-उत्तर-प्रदेश-क्षेत्रस्य चतुर्भ्यः प्रान्तेभ्यः—कानपुर-अवध-काशी-गोरक्ष तथा नेपालात् च आगतान् २८९ शिक्षार्थिनः सम्बोधयन् क्षेत्र-प्रचारकः अनिलः वर्गस्य अनुशासनस्य सूचना-पालनस्य च महत्त्वे विशेषं बलं दत्तवान्। सः उक्तवान् यत्, सङ्घ-शिक्षा-वर्गः कस्यापि पीडने न, अपितु स्वप्रेरणया क्रियमाणं साधनायाः कार्यं वर्तते। अतः वर्गस्य प्रत्येकस्याः सूचनायाः अक्षरशः पालनम् आवश्यकम् अस्ति।
सः उक्तवान् यत् सङ्घः लघु-लघु-वार्तानां माध्यमेन व्यक्ति-निर्माणस्य कार्यं करोति एवञ्च एषा एव प्रक्रिया समाज-परिवर्तनस्य आधारः भवति। सङ्घः गतेभ्यः १०० वर्षेभ्यः अस्याः एव कार्यपद्धत्याः माध्यमेन राष्ट्र-जीवनं सुदृढं करोति।
अनिलः उक्तवान् यत् स्वयंसेवकेन कस्मिन्नपि कार्यक्रमे विलम्बेन न प्राप्तव्यम्। सङ्घस्य अनुशासनस्य प्रशंसा समाजेन सह एव सुरक्षा-व्यवस्थया सम्बद्धाः अधिकारिणः अपि कुर्वन्ति। सः सूचितवान् यत् परम-पूजनीय-सरसङ्घचालकस्य प्रवासस्य अन्तरे सुरक्षा-अधिकारिभिः सङ्घस्य अनुशासनस्य सराहना कृता आसीत्।
जल-संरक्षणे पञ्च-परिवर्तने च विशेषः आग्रहः
भीषण-उष्णतायाः मध्ये शिक्षार्थिनः स्वास्थ्यं जल-संरक्षणं च प्रति जागरूकान् कुर्वन् अनिलः प्रतिदिनं पर्याप्त-जल-सेवनस्य तथा जलस्य मितव्ययि-उपयोगस्य आग्रहं कृतवान्। सः सचेतितवान् यत् भविष्यस्य महत् सङ्कटं जलस्य भविष्यति। राजस्थान-चित्रकूटयोः उदाहरणानि दत्त्वा सः सूचितवान् यत् अनेकेषु क्षेत्रेषु जनाः दूरात् दूरं जलम् आनेतुं विवशाः सन्ति। सः स्वयंसेवकेभ्यः पञ्च-परिवर्तनस्य पालनस्य अपि आह्वानं कृतवान्।
स्वस्य उद्बोधने अनिलः उक्तवान् यत् सामान्यतः संस्थापके गते सति सङ्गठनस्य कार्यपद्धतिः दुर्बला भवति, किन्तु सङ्घस्य षष्ठी सन्ततिः अद्यापि तया एव सक्रियतया समर्पण-भावेन च कार्यं करोति। उपेक्षायाः उपहासस्य च दीर्घ-कालस्य पश्चात् अपि सङ्घः निरन्तर-विस्तारेण प्रभावेण च सह समाज-जीवने सक्रियः अस्ति।
अन्ते सः शिक्षार्थिभ्यः वर्गे अधिकतमं शिक्षितुम्, अनुशासनपूर्वकं स्थातुं तथा समाज-जीवने सकारात्मक-परिवर्तनाय स्वं समर्पितुम् आह्वानं कृतवान्।
अस्मिन् अवसरे वर्ग-कार्यवाहः देवेन्द्र-अस्थाना, वर्ग-पालकः मिथिलेश-नारायणः एवं सह-वर्ग-कार्यवाहः रास-बिहारी च उपस्थिताः आसन्।
--------------------------
Hindusthan Samachar / अंशु गुप्ता