Enter your Email Address to subscribe to our newsletters

लण्डननगरम्, २२ मे-मासः (हि.स.)। इङ्ग्लैण्ड-राष्ट्रिय-फुटबॉल-दलस्य प्रबन्धकः थॉमसटुचेलः शुक्रवासरे फीफा-विश्वकप-२०२६-प्रतियोगितायै अन्तिम-दलस्य घोषणां कृतवान्। अस्मिन् पर्याये दलस्य नायकत्वं स्टार-आक्रमकः हैरी-केनः करिष्यति। दल-चयनमध्ये केषाञ्चन महतां नाम्नां अनुपस्थितिः सर्वेषां ध्यानम् आकर्षितवती; यथा युवा-तारकः कोल-पामरः तथा अनुभवीरक्षकः हैरी-मैग्वायरः दलमध्ये स्थानं न प्राप्तवन्तौ।
फीफा-विश्वकप-२०२६-प्रतियोगिता संयुक्त-राज्य-अमेरिका-कनाडा-मेक्सिको-देशेषु ११ जून-मासात् १९ जुलाई-मासपर्यन्तं आयोजिता भविष्यति। इङ्ग्लैण्ड-दलः ग्रुप-एल-मध्ये क्रोएशिया-घाना-पनामा-दलैः सह स्थापितः अस्ति। दलं स्वस्य अभियानस्य आरम्भं १७ जून-मासे क्रोएशिया-दलस्य विरुद्धं करिष्यति।इङ्ग्लैण्ड-विश्वकप-२०२६-दलम्
गोलरक्षकाः—जार्डन-पिकफोर्डः, डीन-हेन्डरसनः, जेम्स-ट्रैफर्डः
रक्षकाः—जेड-स्पेन्सः, मार्क-गुएही, एज़री-कोंसा, रीस-जेम्सः, निको ओ’राइली, टिनो-लिवरामेन्टो, जारेल-क्वान्सा, जॉन-स्टोन्सः, डैन-बर्नः
मध्यरक्षकाः—एबेरेची-एज़े, डेक्लन-राइसः, इलियट-एंडरसनः, जूड-बेलिङ्घमः, मॉर्गन-रोजर्सः, कोबी-मानू, जॉर्डन-हेन्डरसनः
आक्रमकाः—हैरी-केनः (नाटक:), बुकेयो-साका, नोनी-मडुएके, एंथनी-गॉर्डनः, ओली-वॉटकिंसः, इवान-टोनी, मार्कस-रैशफोर्डः।
Hindusthan Samachar / Divya Ranjan