दिल्ली-प्रो-वालिबॉल-स्पर्धाया: चयन-प्रयोगाः २४ मे-मासात् आरभ्य भविष्यन्ति, सम्पूर्णदेशीय-क्रीडकानां मध्ये उत्साहः अस्ति
नवदिल्ली, २२ मे-मासः (हि.स.)। भारतस्य प्रथम-नारी-नेतृत्वयुक्ता व्यावसायिक-वालिबॉल-स्पर्धा ‘दिल्ली प्रो-वालिबॉल-स्पर्धा (डीपीवीएल)’ स्वस्य प्रथम-पर्याये शुक्रवासरे क्रीडक-चयन-प्रयोगान् (ट्रायल्) उद्घोषितवती अस्ति। प्रथम-चरणस्य ट्रायल् २४ मे-तिथौ प्र
दिल्ली प्रो वॉलीबॉल लीग (डीपीवीएल)’ लोगो


नवदिल्ली, २२ मे-मासः (हि.स.)। भारतस्य प्रथम-नारी-नेतृत्वयुक्ता व्यावसायिक-वालिबॉल-स्पर्धा ‘दिल्ली प्रो-वालिबॉल-स्पर्धा (डीपीवीएल)’ स्वस्य प्रथम-पर्याये शुक्रवासरे क्रीडक-चयन-प्रयोगान् (ट्रायल्) उद्घोषितवती अस्ति। प्रथम-चरणस्य ट्रायल् २४ मे-तिथौ प्रातः अष्टवादनात् लक्ष्मी-पब्लिक-विद्यालये, कड़कड़डूमायां भविष्यन्ति।

स्पर्धा-प्रबन्धनानुसारं सम्पूर्णदेशीय-क्रीडकानां कृते अवसर-प्रदानाय प्रतिभानां च श्रेष्ठ-परिचयाय च चयनप्रक्रिया: बहु-चरणेषु आयोज्यन्ते। सर्वासां चयनप्रक्रियाणां समाप्त्यनन्तरं चयनित-क्रीडकाः आधिकारिक-ऑक्शन-पूल-मध्ये सम्मिलिष्यन्ते, यत्र डीपीवीएल-इत्यस्य षट् फ्रेन्चाइजी-दलानि स्व-स्व-क्रीडा-दलाय क्रीडकान् चेष्यन्ति।

डीपीवीएल-संस्थापिका नीति-रावत: इति उक्तवती यत् चयनप्रक्रिया-विषये क्रीडकाणां मध्ये अत्यधिक-उत्साहः दृश्यते। सा अवदत् यत् चयन-प्रक्रिया चरणबद्धरूपेण क्रियते तथा च पञ्जीकरण-प्रक्रियायां अस्माकं समीपे अतीव उत्तमा प्रतिक्रिया प्राप्ता अस्ति। अस्माकं हर्षः अस्ति यत् देशस्य विंशति-त: अधिकेभ्यः राज्येभ्यः क्रीडकाः पञ्जीकरणं कृतवन्तः। एतेन स्पष्टं भवति यत् डीपीवीएल भारतीय-वालिबॉल-क्रीडायां शीघ्रं स्वकीयं स्थानं निर्माति।

सा पुनः अवदत् — “लीगस्य औपचारिक-आरम्भस्य कतिपय-मासेषु एव डीपीवीएल इत्यस्य स्वरूप-निर्माणं द्रष्टुं प्रेरणादायकम् अस्ति। फेज-१ ट्रायल् अतीव रोमाञ्चकराः भविष्यन्ति, अस्माभिः आशा अस्ति यत् अत्र नूतनाः प्रतिभाः प्रकटिष्यन्ते ये भविष्ये वालिबॉल-क्रीडायां महान् नाम अर्जयितुं शक्नुवन्ति।”

एतेषां ट्रायलानां उद्देश्यः प्रतिभाशालिनां वालिबॉल-क्रीडकानां परिचयः कृत्वा तेषां कृते व्यावसायिक-मञ्चस्य उपलब्धिः करणे अस्ति। अस्य वर्षस्य आरम्भे आरब्धस्य डीपीवीएल-इत्यस्य समर्थनं दिल्ली-वालिबॉल-संघस्य तथा दिल्ली-ओलम्पिक-संघस्य च प्राप्तम् अस्ति।

स्पर्धायां: लक्ष्यं भारतदेशे वालिबॉल-क्रीडायाः कृते सुदृढा दीर्घकालिका च संरचना निर्माणम् अस्ति, यस्मिन् क्रीडक-विकासः, स्पर्धात्मक-वातावरणं तथा उत्तम-मीडिया-आवरणं च विशेषतया ध्यानं प्राप्स्यन्ते।

दिल्ली प्रो-वालिबॉलस्पर्धाया: प्रथम-संस्करणे षट् फ्रेन्चाइजी-दलानि भागं ग्रहीष्यन्ति। स्पर्धाया: उद्घाटन-सत्रम् अस्मिन्नेव वर्षे आयोज्यते। आयोजकानां मतम् अस्ति यत् इयं स्पर्धा भारतीय-वालिबॉल-क्रीडायै नूतनं परिचयं दातुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

Hindusthan Samachar / Divya Ranjan