टीबी जागरूकतापरीक्षणकार्यक्रमः आयोजितः
भागलपुरम्, 22 मईमासः (हि.स.)। १०० दिवसीय क्षयरोगउन्मूलन-अभियानस्य अन्तर्गतं मालदामण्डलेन मुख्यस्वास्थ्यैकके (एमएचयू), साहिबगञ्ज तथा साहिबगञ्ज-रेलस्थानके क्षयरोग (टीबी) जागरूकता तथा परीक्षणकार्यक्रमः आयोजितः। उक्ताशयस्य जानकारी शुक्रवासरे मालदाडीव
कार्यक्रम में शामिल लोग


भागलपुरम्, 22 मईमासः (हि.स.)।

१०० दिवसीय क्षयरोगउन्मूलन-अभियानस्य अन्तर्गतं मालदामण्डलेन मुख्यस्वास्थ्यैकके (एमएचयू), साहिबगञ्ज तथा साहिबगञ्ज-रेलस्थानके क्षयरोग (टीबी) जागरूकता तथा परीक्षणकार्यक्रमः आयोजितः। उक्ताशयस्य जानकारी शुक्रवासरे मालदाडीविजनस्य जनसम्पर्काधिकारीणः प्रदत्ता।

तेन उक्तं यत् एषः कार्यक्रमः मण्डलरेलप्रबन्धकस्य मालदा-मनीषकुमारगुप्तस्य मार्गदर्शने तथा मुख्यचिकित्साअधीक्षकस्य मण्डलरेलचिकित्सालयः मालदा, डॉ.अनुपाघोष इत्यस्याः पर्यवेक्षणे सम्पन्नः अभवत्। मुख्यस्वास्थ्यैकके साहिबगञ्जे आयोजितस्य जागरूकताकार्यक्रमस्य सञ्चालनं डॉ.जी.पी.सिंहः तथा डॉ.सुचितडी.एस., एडीएमओ, एमएचयू, साहिबगञ्ज इत्येताभ्यां जिलाक्षयरोगैककस्य साहिबगञ्जस्य समन्वयेन कृतम्।

कार्यक्रमस्य उद्देश्यं रेलकर्मचारिणः तथा स्वास्थ्यकर्मचारिणः क्षयरोगस्य, तस्य निवारणस्य, शीघ्रपहचानस्य, उपचारस्य तथा समये परीक्षणस्य महत्त्वस्य प्रति जागरूकान् कर्तुम् आसीत्। कार्यक्रमे ३० अधिकाः रेलकर्मचारिणः तथा स्वास्थ्यकर्मचारिणः सक्रियतया सहभागित्वं कृतवन्तः तथा संवादात्मक-जागरूकतासत्रात् लाभान्विताः अभवन्। अभियानस्य अन्तर्गतं जिलाक्षयरोगैककेन पोर्टेबल-एक्स-रे-यन्त्रस्य माध्यमेन २५ अधिकानां कर्मचारिणां क्षयरोगपरीक्षणं कृतम्। येन सम्भावितप्रकरणानां शीघ्रपहचानं तथा समयबद्धोपचारः सुनिश्चितः कर्तुं शक्येत।

सत्रस्य समये प्रतिभागिभ्यः क्षयरोगस्य प्रारम्भिकसंकेताः तथा लक्षणानि, समये परीक्षणस्य तथा उपचारपालनस्य महत्त्वम्, शासकीयस्वास्थ्ययोजनानां अन्तर्गतं निःशुल्कोपचारस्य उपलब्धता तथा क्षयरोगपीडितानां कृते उपलब्धानां शासकीयप्रोत्साहनानां तथा सहाय्यप्रणाल्याः विषये जानकारी प्रदत्ता।

अपरतः अभियानस्य क्रमस्य अन्तर्गतं साहिबगञ्ज-रेलस्थानके अपि एवमेव क्षयरोगजागरूकताकार्यक्रमः आयोजितः, यस्य सञ्चालनं डॉ.सुचितडी.एस. इत्यनेन कृतम्। कार्यक्रमे २५ अधिकाः रेलकर्मचारिणः तथा सामान्यनागरिकाः सहभागित्वं कृतवन्तः तथा जागरूकतागतिविधिभ्यः लाभान्विताः अभवन्। अस्मिन् सत्रे क्षयरोगस्य लक्षणानि, परीक्षणविधयः, परीक्षणप्रक्रिया, डॉट्स-चिकित्सापद्धतिः तथा राष्ट्रियक्षयउन्मूलनकार्यक्रमस्य अन्तर्गतं उपलब्धानां विविधप्रोत्साहनानां विषये विस्तरेण सूचना प्रदत्ता।

Hindusthan Samachar / Dheeraj Maithani