ए. अमलराजः संभालितवान् चेन्नई- आरक्ष्यायुक्तस्य पदम्
चेन्नई, 22 मईमासः (हि.स.)। भारतीयपुलिससेवायाः (आईपीएस) वरिष्ठाधिकारी ए. अमलराज शुक्रवासरे आधिकारिकरूपेण चेन्नई-महानगर-पुलिस-आयुक्तस्य पदभारं स्वीकृतवान्। वेपरीस्थिते चेन्नई-पुलिस-आयुक्त-कार्यालये आयोजिते औपचारिकसमारोहे सः एतद्दायित्वं स्वीकृतवान्।
अमलराज


चेन्नई, 22 मईमासः (हि.स.)। भारतीयपुलिससेवायाः (आईपीएस) वरिष्ठाधिकारी ए. अमलराज शुक्रवासरे आधिकारिकरूपेण चेन्नई-महानगर-पुलिस-आयुक्तस्य पदभारं स्वीकृतवान्। वेपरीस्थिते चेन्नई-पुलिस-आयुक्त-कार्यालये आयोजिते औपचारिकसमारोहे सः एतद्दायित्वं स्वीकृतवान्। समारोहे वरिष्ठपुलिसाधिकारिणः, विभागीयकर्मचारिणः तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्।

पदभारग्रहणानन्तरम् आयुक्तः ए. अमलराजः पुलिस-जवानानां परेडस्य सलामीं स्वीकृतवान्। ततः परं सः आधिकारिकप्रपत्रेषु हस्ताक्षरं कृत्वा स्वस्य नूतनकार्यकालस्य आरम्भम् अकरोत्। चेन्नई-पुलिस-मुख्यालये आयोजिते अस्मिन् कार्यक्रमे सुरक्षाव्यवस्था-प्रशासनिकक्रियाकलापयोः विषये अधिकारिणां कर्मचारिणां च मध्ये उत्साहस्य वातावरणं दृष्टम्।

उल्लेखनीयं यत् अस्य पूर्वं चेन्नई-पुलिस-आयुक्तपदे कार्यरतः अभिन दिनेश मोदक स्थानान्तरितः कृत्वा तं सीबी-सीआईडी-विभागे अतिरिक्तपुलिसमहानिदेशकपदे (एडीजीपी) नियुक्तः। राज्यसर्वकारेण निर्गते आदेशे अनन्तरं ए. अमलराजः चेन्नईनगरस्य नूतनः पुलिस-आयुक्तः नियुक्तः।

१९९६तमवर्षस्य सत्रस्य आईपीएस-अधिकारी ए. अमलराजः पुलिसविभागे स्वस्य दीर्घप्रशासनिक-क्षेत्रीयानुभवयोः कृते प्रसिद्धः अस्ति। सः स्वस्य सेवायात्रायाः आरम्भं तिरुप्पुरे सहायकपुलिसाधीक्षकस्य (एएसपी) रूपेण कृतवान्। ततः परं तमिळनाडुराज्यस्य अनेकजिलेषु विविधमहत्त्वपूर्णपदेषु सेवां दत्तवान्। उत्कृष्टकार्यशैली-प्रशासनिकदक्षतयोः आधारेण तस्मै निरन्तरं पदोन्नतिः प्राप्ता तथा अनन्तरं सः पुलिसमहानिरीक्षकः (आईजी) अभवत्।

कन्याकुमारी-जिलातः सम्बद्धः अमलराजः पूर्वमपि चेन्नई-पुलिस-प्रशासने महत्त्वपूर्णदायित्वं निर्व्यूढवान्। सः चेन्नई-नगरस्य अतिरिक्तपुलिस-आयुक्तरूपेण कार्यं कृतवान्। एतदतिरिक्तम् अतिरिक्त-डीजीपी-पदं प्राप्तवान् सन् द्विवारं ताम्बरम्-पुलिस-आयुक्तरूपेण अपि दायित्वं स्वीकृतवान्। विधिव्यवस्थारक्षणे, अपराधनियन्त्रणे प्रशासनिकनेतृत्वे च तस्य अनुभवम् अवलोक्य तस्य नियुक्तिः अत्यन्तं महत्त्वपूर्णा मन्यते।

चेन्नई-महानगर-आरक्ष्यधीक्षकस्य नेतृत्वं स्वीकृत्य अधुना नगरस्य विधिव्यवस्था, यातायातप्रबन्धनं, साइबर-अपराध-नियन्त्रणं, जनसुरक्षा इत्यादिषु महत्त्वपूर्णविषयेषु तस्य कार्यशैली-रणनीत्योः प्रति सर्वेषां दृष्टिः भविष्यति।

-------------

Hindusthan Samachar / Dheeraj Maithani