Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 22 मईमासः (हि.स.)।
उत्तराखण्डस्य राज्यपालः सेवानिवृत्तः लेफ्टिनेंट्-जनरल् गुरमीत सिंह शुक्रवासरे लोकभवन-नैनीतालस्य गोल्फ-क्षेत्रे टी-ऑफ् कृत्वा एकविंशतितमस्य गवर्नर्स्-कप्-गोल्फ-प्रतियोगितायाः औपचारिकशुभारम्भं कृतवान्। त्रिदिनपर्यन्तं चलमानस्य अस्य प्रतिष्ठितस्य आयोजनस्य अन्तर्गतं विभिन्नश्रेणीषु एकोनाशीत्यधिकशतं गोल्फ-क्रीडकाः सहभागित्वं कुर्वन्ति। अस्य वर्षस्य प्रतियोगिता उत्तराखण्डस्य पूर्वमुख्यमन्त्रिणः तथा पूर्वकेन्द्रीयमन्त्रिणः भुवन चंद्र खंडूड़ी स्मृतये समर्पिता अस्ति।
अस्मिन् अवसरे राज्यपालः उक्तवान् यत् गवर्नर्स्-कप् केवलं क्रीडाप्रतियोगिता नास्ति, अपितु उत्तराखण्डस्य क्रीडासामर्थ्यस्य पर्यटनसम्भावनानां च प्रदर्शनस्य प्रभावी मंचः अस्ति। सः उक्तवान् यत् प्रतियोगितायां एकाशीतिवर्षीयः कर्नल् एच्. सी. गुप्ता इत्यस्मात् आरभ्य सप्तवर्षीया इलाक्षी राठौड् पर्यन्तं सहभागिता प्रेरणादायकम् उदाहरणम् अस्ति।
प्रतियोगितायां शताधिकदश सामान्यश्रेण्याः, सप्तविंशतिः कनिष्ठश्रेण्याः, नव महिलाश्रेण्याः, एकोनत्रिंशत् वेटरन्-अर्थात् वृद्धक्रीडकाः तथा चत्वारः सुपर्-वेटरन्-अर्थात् अतिवृद्धक्रीडकाः सहभागित्वं कुर्वन्ति। राज्यपालः उक्तवान् यत् गोल्फ-क्रीडा धैर्यं, अनुशासनं, मानसिकसन्तुलनं च विकासयति तथा ‘फिट् इण्डिया’ एवं ‘खेलो इण्डिया’ अभियानयोः संवर्धनं कुर्वती युवभ्यः नूतनां दिशां प्रददाति। सः लोकभवन-गोल्फ-क्षेत्रस्य प्राकृतिकसौन्दर्यस्य ऐतिहासिकमहत्त्वस्य च प्रशंसाम् अकरोत्।
अस्मिन् अवसरे राज्यपालस्य सचिवः रविनाथ रामन, कुमाऊँमण्डलस्य आयुक्तः दीपक रावत, जिलाधिकारी ललित मोहन रयाल, वरिष्ठपुलिसाधीक्षकः डॉ. मंजूनाथ टीसी, गोल्फ-कप्तानः कर्नल् विवेक भट्ट सहिताः अनेकाः अधिकारिणः, प्रायोजकसंस्थानां प्रतिनिधयः तथा क्रीडकाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani