सासारामे द्विदिवसीयस्य शेरशाह सूरी महोत्सवस्य शुभारंभः, सूफी गीतेषु आनन्दिताश्श्रोतारः
डेहरी आन सोनः, 22 मईमासः (हिस ) बिहारराज्यस्य सासारामनगरे पर्यटनविभागस्य जिलाप्रशासनस्य च संयुक्ततत्त्वावधाने फजलगञ्ज-स्टेडियम् इत्यत्र द्विदिवसीयः शेरशाहसूरी-महोत्सवः समारब्धः। जिलाधिकारी उदितासिंहः, विधानपार्षदा निवेदितासिंहः, डेहरी-क्षेत्रस्य
शेरशाह महोत्सव का उद्घाटन करते डेहरी विधायक, डीएम व अन्य


जगमगाता शेरशाह मकबरा


डेहरी आन सोनः, 22 मईमासः (हिस )

बिहारराज्यस्य सासारामनगरे पर्यटनविभागस्य जिलाप्रशासनस्य च संयुक्ततत्त्वावधाने फजलगञ्ज-स्टेडियम् इत्यत्र द्विदिवसीयः शेरशाहसूरी-महोत्सवः समारब्धः। जिलाधिकारी उदितासिंहः, विधानपार्षदा निवेदितासिंहः, डेहरी-क्षेत्रस्य विधायकः राजीवरञ्जनसिंहः, उपविकासायुक्तः विजयकुमारपाण्डेयः तथा एसडीएम् डॉ. नेहाकुमारी च संयुक्तरूपेण दीपप्रज्वलनं कृत्वा महोत्सवस्य उद्घाटनम् अकुर्वन्।

उद्घाटनसत्रे जिलाधिकारी उदितासिंहः उक्तवती यत् शेरशाहसूरी केवलं बिहारस्य न, अपितु सम्पूर्णस्य राष्ट्रस्य गौरवः अस्ति। अस्य महोत्सवस्य उद्देश्यं नूतनपीढीं तस्य ऐतिहासिकविरासतया, प्रशासनिकक्षमतया तथा सांस्कृतिकयोगदानेन परिचाययितुम् अस्ति। तया उक्तं यत् एतादृशाः आयोजनाः स्थानीयकलाकाराणां नूतनपरिचयं जनयन्ति।

कार्यक्रमस्य आरम्भः शेरशाहसूरिणो व्यक्तित्वकृतित्वयोः आधारितया विशेष-प्रलेखचित्रपटेन अभवत्। अस्मिन् तस्य प्रशासनिककौशलम्, न्यायप्रियता, मार्गनिर्माणम्, डाकव्यवस्था तथा राष्ट्रनिर्माणे योगदानं प्रदर्शितम्। ततः “शेरशाहसूरीस्य व्यक्तित्वं कृतित्वं च” इति विषये आयोजितायाः रील-प्रतियोगितायाः विजेतारः पुरस्कृताः।

सांस्कृतिककार्यक्रमेषु कलाजत्थस्य लोकगायनम् तथा आल्हागायनं पारम्परिकसंस्कृतेः मनोहरां नृत्यं प्रदर्शितवन्तौ। दीपशिखा-नृत्यसमूहस्य प्रस्तुतिषु दर्शकैः बहु करताडनं कृतम्। गायकः कुमारसत्यम् इत्यस्य सूफीगीतानि गजलाः च श्रुत्वा जनाः रात्रेः विलम्बपर्यन्तं आनन्देन मग्नाः आसन्। गायिका हर्षप्रीतकौरोऽपि मधुरगीतैः सर्वेषां हृदयानि जितवती।

मुशायराकार्यक्रमे शायरैः गजल-नज्मादिभिः श्रोतारः मन्त्रमुग्धाः कृताः। विचारगोष्ठ्याम् इतिहासविद्भिः शेरशाहसूरिणो भूमिराजस्वव्यवस्था, न्यायव्यवस्था तथा मार्गनिर्माणे योगदानस्य विषये प्रकाशः स्थापितः। वक्तारः उक्तवन्तः यत् तस्य नीतिनां प्रभावः अद्यापि भारतीयप्रशासने दृश्यते।

पर्यटनविभागस्य प्रभारीपदाधिकारी विनयप्रतापः अवदत् यत् द्वितीयदिने गायकाः आनन्दतिवारी, उत्तमामिश्रा, मोनीझा तथा तान्यामौआरा स्वप्रस्तुतिं दास्यन्ति। श्रीरामकलावटिका तथा साकारकलासमूहः नृत्यप्रदर्शनं करिष्यतः। मुख्याकर्षणरूपेण शाबरी-ब्रदर्स् इत्यस्य सूफीगीतानि कव्वाल्यः च भविष्यन्ति।

कार्यक्रमस्थले विविधविभागानां प्रदर्शनी-स्टॉलाः स्थापिताः सन्ति। शेरशाहसूरी-मकबरः आकर्षक-दीपसज्जया शोभितः अस्ति। सम्पूर्णं स्टेडियम्-परिसरं सांस्कृतिकसज्जया भव्यरूपेण अलंकृतम् अस्ति। महोत्सवस्य विषये नगरवासिषु महानुत्साहः दृश्यते।

Hindusthan Samachar / Dheeraj Maithani