मुख्यमंत्री 483 यूनां कृते नियुक्तिपत्राणि, अवदत्- पारदर्शीनियुक्तप्रक्रियया यूनां वर्धितो विश्वासः
देहरादूनम्, 22 मईमासः (हि. स.)। पुष्कर सिंह धामी मुख्यमन्त्री शुक्रवासरे मुख्यमन्त्री-शिविरकार्यालयस्थिते मुख्यसेवकसदने सिंचन-कृषिविभागयोः अन्तर्गतं चयनितेभ्यः ४८३ अभ्यर्थिभ्यः नियुक्तिपत्राणि वितरितवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् पार
मुख्यमंत्री पुष्कर सिंह धामी नियुक्ति पत्र पाने वाले अभ्यर्थियों के साथ।


देहरादूनम्, 22 मईमासः (हि. स.)। पुष्कर सिंह धामी मुख्यमन्त्री शुक्रवासरे मुख्यमन्त्री-शिविरकार्यालयस्थिते मुख्यसेवकसदने सिंचन-कृषिविभागयोः अन्तर्गतं चयनितेभ्यः ४८३ अभ्यर्थिभ्यः नियुक्तिपत्राणि वितरितवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् पारदर्शिनियोजनप्रक्रियया युवानां विश्वासः वर्धितः अस्ति।

कार्यक्रमे पुष्कर सिंह धामी पूर्वमुख्यमन्त्रिणं मेजर-जनरल (सेवानिवृत्तं) भुवन चंद्र खंडूरिणं प्रति श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् तेन तादृशस्य उत्तराखण्डस्य स्वप्नं दृष्टम् आसीत्, यत्र युवानां परिचयः तेषां परिश्रमेण प्रतिभया च भवेत्। मुख्यमन्त्री उक्तवान् यत् सार्धचतुर्षु वर्षेषु ३३ सहस्राधिकाभ्यर्थिभ्यः शासकीय-नियुक्तिः प्रदत्ता अस्ति। अद्य नियुक्तिप्राप्तेषु ४७३ पदानि सिंचनविभागस्य, १० पदानि कृषिविभागस्य च सन्ति। तेन उक्तं यत् अद्य युवभ्यः प्रदीयमानानि नियुक्तिपत्राणि अस्य प्रमाणं सन्ति यत् राज्यसरकारः पारदर्शि-निष्पक्ष-भर्तीप्रक्रियया तेषां स्वप्नानि साकारयति।

मुख्यमन्त्री उक्तवान् यत् राज्यसरकारेण प्रवर्तितस्य कठोर-नकलविरोधि-कानूनस्य सकारात्मकफलानि दृश्यन्ते। तेन सूचितं यत् गतसार्धचतुर्षु वर्षेषु प्रायः ३३ सहस्रयुवभ्यः शासकीय-नियुक्तिः प्रदत्ता। तेन उक्तं यत् अधुना चयनं केवलं परिश्रम-प्रतिभाभ्यामेव क्रियते, येन युवानां व्यवस्थायां विश्वासः सुदृढः जातः।

अस्मिन् अवसरे सिंचनमन्त्री सतपाल महाराज सर्वेभ्यः चयनितयुवभ्यः शुभकामनाः प्रदाय उक्तवान् यत् एषः क्षणः उत्तराखण्डस्य विकासयात्रायां युवानां सक्रियसहभागितायाः शुभारम्भः अस्ति। तेन उक्तं यत् मुख्यमन्त्रिणः नेतृत्वे प्रदेशे पारदर्शि-, निष्पक्ष-, योग्यता-आधारितायाः नियोजनप्रक्रियायाः निरन्तरं सुदृढीकरणं जातम्। अद्य उत्तराखण्डस्य युवा अनुभवन्ति यत् तेषां परिश्रमस्य, प्रतिभायाः, समर्पणस्य च लाभः अवश्यं भविष्यति।

सिंचनमन्त्री उक्तवान् यत् सिंचनविभागः केवलं नहर-परियोजनानां विभागः न, अपितु कृषकाणां समृद्धेः, जलसंरक्षणस्य, ग्रामीण-अर्थव्यवस्थायाः च सुदृढाधारः अपि अस्ति। तेन विश्वासः व्यक्तीकृतः यत् नव-नियुक्तकर्मचारिणः राज्यस्य प्रगतेः जनतायाः अपेक्षाणां च सहभागी भविष्यन्ति।

कृषिमन्त्री गणेश जोशी उक्तवान् यत् सर्वे युवानः स्वजीवने नवीनम् अध्यायं प्रारभन्ते। मुख्यमन्त्रिणः निर्देशानुसारं कठोर-नकलविरोधि-कानूनस्य प्रवर्तनानन्तरं अधुना केवलं पात्रेभ्यः परिश्रमीभ्यः बालकेभ्यः एव नियुक्तयः प्रदीयन्ते। तेन उक्तं यत् अद्य लक्षाधिकाः नवयुवानः स्टार्टअप्-, नवाचार-माध्यमेन अपि नवीनाध्यायं प्रारभन्ते।

अस्मिन् अवसरे विधायकाः सविता कपूर, उमेश शर्मा काऊः, महंत दलीप सिंह रावत, प्रमुखसचिवः मीनाक्षी सुंदरम, सचिवः सुरेंद्र नारायण पांडे तथा युगल किशोर पंतश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani