मुख्यमंत्री धामी अवदत्-देवभूमौ मार्गेषु नमाज़पठनं न अनुमतंकरिष्यामः, प्रशासनादुपरि कश्चिन्न
देहरादूनम्, 22 मईमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी उक्तवान् यत् उत्तराखण्डे सार्वजनिकमार्गेषु नमाजपाठस्य अनुमतिः न प्रदास्यते। मार्गाः सामान्यजनानां आवागमनार्थं भवन्ति तथा विधेः उपरि कश्चन न भवितुमर्हति। सः उक्तवान् यत् चारध
मुख्यमंत्री पुष्कर सिंह धामी कार्यक्रम को संबोधित करते हुए।


देहरादूनम्, 22 मईमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी उक्तवान् यत् उत्तराखण्डे सार्वजनिकमार्गेषु नमाजपाठस्य अनुमतिः न प्रदास्यते। मार्गाः सामान्यजनानां आवागमनार्थं भवन्ति तथा विधेः उपरि कश्चन न भवितुमर्हति। सः उक्तवान् यत् चारधामयात्रायाः समये राज्ये शान्तेः यातायातव्यवस्थायाश्च संरक्षणं सर्वकारस्य प्राधान्यं वर्तते। सः चेतावनीं दत्तवान् यत् सार्वजनिकव्यवस्थां बाधमानानां विरुद्धं कठोरकार्यवाही क्रियिष्यते।

मुख्यमन्त्री शुक्रवासरे अत्र एकस्मिन् कार्यक्रमे जनान् सम्बोधयन् आसीत्। अस्मिन् अवसरे मुख्यमन्त्री सार्वजनिकमार्गेषु नमाजपाठविषये कठोरं दृष्टिकोणं स्वीकृत्य उक्तवान् यत् “देवभूमौ उत्तराखण्डे मार्गाः धार्मिकक्रियाकलापानां प्रदर्शनानां वा माध्यमरूपेण भवितुं न अनुमन्यन्ते तथा विधेः उपरि कश्चन नास्ति।” सः उक्तवान् यत् राज्यसर्वकारः सर्वेषां धर्माणाम् आस्थानां च सम्मानं करोति, किन्तु सार्वजनिकव्यवस्था सामान्यनागरिकाणां सुविधा च सर्वोपरि वर्तेते।

सः उक्तवान् यत् अधुना चारधामयात्रायाः कारणेन उत्तराखण्डे लक्षशः श्रद्धालवः आगच्छन्ति, अतः यातायातव्यवस्थायाः विधिव्यवस्थायाश्च संरक्षणं सर्वकारस्य महत्तमा जिम्मेदारी अस्ति। सः उक्तवान् यत् मार्गाः सामान्यजनानां आवागमनार्थं भवन्ति तथा तेषां कस्यापि प्रकारेण अवरोधनम् उचितं नास्ति। मुख्यमन्त्री स्पष्टतया उक्तवान् यत् नमाजः मस्जिदेषु, ईदगाहेषु, निर्धारितस्थानेषु च एव पठनीयः। सार्वजनिकमार्गान् बाधित्वा जनानाम् असुविधां जनयितुं कस्यामपि परिस्थितौ स्वीकृतं न भविष्यति।

मुख्यमन्त्री विपक्षं विशेषतः भारतीय राष्ट्रिय कांग्रेस दलं तुष्टिकरणराजनीतिं कर्तुम् आरोप्य उक्तवान् यत् केचन राजनैतिकदलाः मतसञ्चयराजनीत्याः कारणेन मार्गेषु नमाजपाठवत् विषयान् समर्थनं कुर्वन्ति। सः उक्तवान् यत् उत्तराखण्डसर्वकारस्य नीति स्पष्टा अस्ति— राज्ये विधेः शासनं सर्वोपरि भविष्यति तथा कस्यापि प्रकारस्य अराजकता न सहिष्यते।

मुख्यमन्त्री उक्तवान् यत् नमाजः मस्जिदस्थलेषु, ईदगृहेषु, निर्धारितस्थानेषु च एव अदा कर्तव्यः। सार्वजनिकमार्गान् बाधित्वा सामान्यजनान् क्लेशे स्थापयितुं कस्यामपि परिस्थितौ स्वीकृतं न भविष्यति। सः काङ्ग्रेसदलं तुष्टिकरणराजनीतिं कर्तुम् आरोप्य उक्तवान् यत् केचन जनाः मतसञ्चयराजनीत्यर्थं मार्गेषु नमाजपाठस्य समर्थनं कुर्वन्ति, किन्तु उत्तराखण्डसर्वकारस्य नीति पूर्णतया स्पष्टा समरूपेण च प्रवर्तनीया अस्ति।

मुख्यमन्त्री संचेतनां दत्त्वा उक्तवान् यत् सार्वजनिकमार्गान् बन्धकरूपेण उपयुज्य अराजकतां प्रसारयतां विरुद्धं कठोरकार्यवाही क्रियिष्यते। सः पुनरुक्तवान्— “देवभूमेः शान्तिः संस्कृतिः अनुशासनं च रक्षितुं अस्माकं प्राधान्यम् अस्ति। कस्यापि जनस्य सार्वजनिकव्यवस्थां विघ्नयितुं अनुमतिः न प्रदास्यते।”

Hindusthan Samachar / Dheeraj Maithani