प्रधानमन्त्रिणे अभद्र-टिप्पणी कांग्रेस-दलस्य राजनैतिक-कुसंस्काराणां प्रमाणम् - योगी-आदित्यनाथः
लखनऊनगरम्, २२ मे-मास: (हि.स.)। मुख्यमंत्री योगी-आदित्यनाथः प्रधानमन्त्री नरेन्द्र-मोदीं प्रति उत्तरप्रदेश-काँग्रेस-अध्यक्षस्य टिप्पण्या: विषये काँग्रेस-दलम् उद्दिश्य तीव्रम् आक्रमणम् अकरोत्। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री-विषये कृता अभद्र-
मुख्यमंत्री योगी


लखनऊनगरम्, २२ मे-मास: (हि.स.)। मुख्यमंत्री योगी-आदित्यनाथः प्रधानमन्त्री नरेन्द्र-मोदीं प्रति उत्तरप्रदेश-काँग्रेस-अध्यक्षस्य टिप्पण्या: विषये काँग्रेस-दलम् उद्दिश्य तीव्रम् आक्रमणम् अकरोत्। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री-विषये कृता अभद्र-असंसदीया-अक्षम्या च टिप्पणी काँग्रेस-दलस्य राजनैतिक-कुसंस्काराणां स्पष्टं प्रमाणम् अस्ति।

मुख्यमन्त्री योगी आदित्यनाथः सामाजिक-माध्यमे ‘एक्स’ इत्यस्मिन् प्रकाशिते सन्देशे उक्तवान् यत् काँग्रेस-दलस्य शीर्ष-नेतृत्वस्य भाषा आचरणं च निरन्तरं लोकतान्त्रिक-मर्यादानां हननं कुर्वन्ति। सः अवदत् यत् पूर्वम् अपि काँग्रेसस्य “युवराजः” स्व-टिप्पणीभिः स्व-कुसंस्कारानां परिचयं प्रदत्तवान् अस्ति।

मुख्यमन्त्री उक्तवान् यत् काँग्रेस-दलम् अद्य निराशा-कुण्ठा-मानसिक-अल्पताया: च उच्चतम-स्तरं प्राप्तः अस्ति। जनानां समर्थनस्य निरन्तर-ह्रासात् कारणात् काँग्रेस-नेतृषु राजनीतिक-संयमः शालीनता च समाप्ता इव दृश्यते। सः अवदत् यत् काँग्रेस-नेतृभिः यत् प्रकारस्य भाषा प्रयुज्यते, सा भारतीय-लोकतन्त्रस्य गरिमायाः अनुकूलं नास्ति।

अन्ते सः उक्तवान् यत् काँग्रेस-दलस्य अवस्था इदानीं तादृशी जाता यत् देशवासिभ्यः क्षमां याचितुं नैतिकस्थितिः अपि तस्याः न अवशिष्टा अस्ति।

वस्तुतः काँग्रेसस्य प्रदेशाध्यक्षः अजय-राजः महोबानगरे दुष्कर्म-अपहरण-पीडितया छात्रया सह साक्षात्कृत्य समर्थकैः सह वार्तालाप-काले प्रधानमन्त्री नरेन्द्र-मोदीं प्रति आपत्तिजनकां टिप्पणीं कृत्वा अभद्र-भाषां प्रयुक्तवान् इति कथ्यते। अस्याः घटनायाः चलचित्र-प्रसारस्य पश्चात् राजनैतिक-विवादः तीव्रः अभवत्।

Hindusthan Samachar / Divya Ranjan