बाराबंकीतः 29 भगिन्यश्शौर्य प्रशिक्षण वर्गे भागं स्वीकर्तुं प्रस्थिताः, हरदोईनगरे जायते आयोजनम्
बाराबंकी, 22 मईमासः (हि.स.)। उत्तरप्रदेशस्य बाराबंकीजनपदात् शुक्रवासरे जीआईसी-सभागृहात् दुर्गावाहिन्याः भगिन्यः हरदोईजनपदं प्रति प्रस्थिताः। हरदोईजनपदे आयोज्यमानस्य दुर्गावाहिन्याः सप्तदिवसीय-शौर्यप्रशिक्षणवर्गस्य कृते बाराबंकीविभागात् नवविंशतिः
फ़ोटो


बाराबंकी, 22 मईमासः (हि.स.)।

उत्तरप्रदेशस्य बाराबंकीजनपदात् शुक्रवासरे जीआईसी-सभागृहात् दुर्गावाहिन्याः भगिन्यः हरदोईजनपदं प्रति प्रस्थिताः। हरदोईजनपदे आयोज्यमानस्य दुर्गावाहिन्याः सप्तदिवसीय-शौर्यप्रशिक्षणवर्गस्य कृते बाराबंकीविभागात् नवविंशतिः भगिन्यः दुर्गावाहिन्याः विभागसंयोजिका नेहा मिश्रा तथा जिला-साप्ताहिक-मिलन-प्रमुखा सरिता सिंह इत्यनयोः नेतृत्वे प्रशिक्षणार्थं प्रेषिताः।

शौर्यप्रशिक्षणवर्गे भगिन्यः बौद्धिकम्, योगः, व्यायामः, प्राणायामः, नियुद्धम्, दण्डः, बाधा-समता तथा आत्मरक्षायाः कौशलानि शिक्षिष्यन्ते।

विश्व हिंदू परिषदो विभागसंगठनमन्त्री इंद्रेश वर्गं प्रति गच्छन्तीभ्यः भगिनीभ्यः अनुशासनसम्बद्धान् निर्देशान् दत्त्वा उक्तवान् यत् वर्गः एकं साधनम् अस्ति। यस्य आत्मसात्करणेन स्वजीवने समाजे च परिवर्तनम् आनेतुं शक्यते।

जिलापञ्चायत-अध्यक्षा राजरानी रावत तथा जिला-बाल-कल्याण-समितेः अध्यक्षा बाला चतुर्वेदी अङ्गवस्त्रं मालां च धारयित्वा उत्साहवर्धनम् अकुरुताम्।

अस्मिन् अवसरे विश्वहिंदुपरिषदो जिलाध्यक्षः रामनाथ मौर्य, जिलामन्त्री राहुल कुमार, ब्लॉक-प्रमुखः धर्मेंद्र यादव, महारानी-लक्ष्मीबाई-एजुकेशनल-ग्रुपस्य अध्यक्षः तथा जिला-संस्कार-प्रमुखः रामकिशोर शुक्ला, जिला-विशेष-संपर्क-प्रमुखः तुलसीराम चौहानः, बजरंगदलस्य जिला-संयोजकः राहुल विक्रम सिंह तथा जिला-सहसंयोजकः तुषार तिवारी, दुर्गावाहिन्याः जिला-संयोजिका रामसनेहीघाटस्य रुचि सिंह, सरिता सिंह, नगराध्यक्षः राजेंद्र प्रसाद जायसवाल, नगरमन्त्री सौरभ गुप्ता तथा देवा-प्रखण्ड-संयोजकः हिमांशु चौरसिया इत्यादयः विशेषरूपेण उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani