Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २२ मे-मासः (हि.स.)। प्रदेशे प्रचण्ड-उष्णतायाः विद्युत्-आवश्यकतायाः च वृद्धेः अपि मुख्यमंत्री-योगी-आदित्यनाथस्य मार्गदर्शने उत्तरप्रदेशस्य विद्युत्-व्यवस्था निरन्तरं सुचारुरूपेण प्रवर्तते। उ.प्र.-पावर-कारपोरेशन-लिमिटेड (यूपीपीसीएल) सर्वेषु क्षेत्रेषु निर्धारित-समयानुसारं विद्युत्-आपूर्तिं कुर्वन् अस्ति। ट्रान्सफार्मरादि-विषयकाः याः याः सूचना: आगच्छन्ति, तासां शीघ्रं निवारणं क्रियते, येन सामान्यजनाय महती शिथिलता प्राप्यते।
प्रदेशे ग्रामीण-क्षेत्रेषु १८ होरा:, तहसील-मुख्यालयेषु तथा नगर-पञ्चायतेषु सार्ध २१ होरा:, जनपद-मुख्यालयेषु च २४ होरा: विद्युत्-आपूर्तेः समय: निर्धारितः अस्ति। प्रदेशे विद्युत्-याचना रात्रौ प्रायः ३२–३३ सहस्र-मेगावाट्-पर्यन्तं प्राप्नोति। अस्याः आवश्यकतायाः पूर्तये उ.प्र.-पावर-कारपोरेशन दीर्घकालिक-अल्पकालिक-अनुबन्धैः, ऊर्जा-एक्स्चेञ्ज-माध्यमै: तथा विभिन्न-राज्यैः सह ऊर्जा-बैंकिंग-माध्यमेन च व्यापक-प्रयत्नान् कुर्वन् अस्ति।
उ.प्र.-पावर-कारपोरेशनस्य निदेशक- (वितरण) ज्ञानेन्द्रधर-द्विवेदी उक्तवान् यत् प्रचण्ड-उष्णता-दृष्ट्या यूपीपीसीएल प्रदेश-जनतायै राहतिं दातुं दिन-समये सर्वेषु क्षेत्रेषु रोस्टरिंग-रहितां विद्युत्-आपूर्तिं कुर्वन् अस्ति। २१ मे-मासे अपराह्णे २ वादने लोडः २९,४९३ मेगावाट् इति सर्वकालिक-उच्चतम-स्तरं प्राप्तवान्। तथा च २२ मे-मासे अपराह्णे २:३० वादने प्रदेशस्य उच्चतम-विद्युत्-मागः ३०,३५७ मेगावाट् इति आपूर्ति: अभवत्। एतत् विवरणं वैज्ञानिक-अन्तर्जाल-दत्तानां आधारेण प्रदत्तः अस्ति।
प्रचण्ड-उष्णता-काले उपभोक्तृणां असुविधां न भवेत् इति दृष्ट्या कारपोरेशनं निर्बाध-विद्युत्-आपूर्तये निरन्तरं प्रयत्नशीलम् अस्ति।
अधिकारिणां कर्मचारिणां च विशेष-निर्देशाः अपि दत्ताः यत् विद्युत्-बाधा यदि भवति तर्हि तस्याः अवधि-विद्युत् अतिरिक्त-आपूर्त्या पूरणीयम्। उपभोक्तृभ्यः दूरभाष-ग्रहणं, समुचित-सूचना-प्रदानं च अनिवार्यं कृतम्। ट्रान्सफार्मर-क्षतिः न भवेत् इति सावधानी अपेक्षिता अस्ति, क्षतिः चेत् शीघ्रातिशीघ्रं आपूर्तिः सामान्यीकरणीया।
अनुरक्षण-मासस्य माध्यमेन पूर्वमेव आवश्यक-सुधार-कार्याणि कृतानि सन्ति, तथापि यत्र आवश्यकता भवति तत्र त्वरित-निराकरणस्य निर्देशाः सन्ति। अस्य कृते प्रत्येकं डिस्कॉमाय पर्याप्त-धनराशिः दत्ता अस्ति। प्रचण्ड-उष्णता तथा अत्यधिक-ए.सी.उपकरणानां भारात् यदा विद्युत्-विघ्नः जायते, तदा तस्य शीघ्र-निवारणाय युद्धस्तरेण प्रयासः क्रियते।
Hindusthan Samachar / Divya Ranjan