Enter your Email Address to subscribe to our newsletters

—विभिन्न रचनात्मक गतिविधीनां माध्यमेन किमपि नूतनं शीक्षन्ते40 बालाः ।
वाराणसी, 22 मईमासः (हि.स.)। उत्तरप्रदेशे वाराणसीजनपदस्य ग्रामीणाञ्चले चौबेपुरक्षेत्रस्य भन्दहाकलाग्रामे सञ्चालिते आशापुस्तकालये अध्ययनकेन्द्रे च आयोजिते समर-कैम्पे बालकाः यत्र उत्साहेन क्रीडन्ति, तत्रैव तेषां अन्तर्निहिता सृजनात्मकप्रतिभा अपि विकसिताभवति। पञ्चदिवसीयस्य शिविरस्य द्वितीयदिने शुक्रवासरे बालकैः कथा, कविता, नाटक, चित्रकला, पुत्तलिका, विज्ञानक्षेत्रेषु अपि रुचिः प्रदर्शिता। बालकैः विविधप्रतियोगितासु सहभागित्वेन सह स्वच्छताअभियानादिषु गतिविधिषु अपि श्रमदानं कृतम्।
सामाजिकसंस्थायाः आशाट्रस्टस्य समन्वयकः वल्लभाचार्यपाण्डेयः उक्तवान् यत् अस्मिन् समर-कैम्पे विभिन्नस्थानेषु सञ्चालितानां शिक्षणकेन्द्राणां कुलं ४० बालकाः सहभागीभूताः सन्ति। समर-कैम्पे कथा, कविता, नाटक, चित्रकला, कठपुतली, विज्ञानम्, स्वच्छताअभियानम् इत्यादिभिः विविधगतिविधिभिः माध्यमेन बालकेभ्यः किञ्चित् नवीनं शिक्षयितुं प्रयासः क्रियते।
कार्यक्रमसंयोजकः दीनदयालसिंहः उक्तवान् यत् एषः शिविरः रचनात्मकगतिविधीनाम् एकः उत्सवः अस्ति। यस्मिन् बालकानां रचनाशीलता प्रकाशिष्यते तथा तेषु नवाचारस्य प्रति रुचिः वर्धिष्यते।
कार्यक्रमस्य समापनं २५ मई दिनाङ्के भविष्यति।
शिविरस्य सञ्चालनकार्ये प्रदीपसिंहः, सौरभचन्द्रः, अमितकुमारः, अवनीशपाण्डेयः, रमेशप्रसादः, सनी, ब्रिजेशकुमारः, अमृता, जेसिका इत्यादीनां प्रमुखा भूमिका अस्ति।-------
Hindusthan Samachar / Dheeraj Maithani