सम्पूर्णानन्द संस्कृत विश्वविद्यालये परीक्षासज्जाः कुलपतिना सञ्ज्ञाताः
—28 मईतः प्रारप्स्यमानासु हो वार्षिक परीक्षासु अनुशासन एवं दायित्व निर्वहने दत्तं विशिष्टं बलम् वाराणसी, 22 मईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी स्थिते सम्पूर्णानन्द संस्कृत विश्वविद्यालय मध्ये शास्त्री-आचार्ययोः परीक्षाः मेमासस्य २८ दिनाङ्कात्
परीक्षा केन्द्र का निरीक्षण करते कुलपति


—28 मईतः प्रारप्स्यमानासु हो वार्षिक परीक्षासु अनुशासन एवं दायित्व निर्वहने दत्तं विशिष्टं बलम्

वाराणसी, 22 मईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी स्थिते सम्पूर्णानन्द संस्कृत विश्वविद्यालय मध्ये शास्त्री-आचार्ययोः परीक्षाः मेमासस्य २८ दिनाङ्कात् प्रारभन्ते। परीक्षाः पारदर्शितया समये च सम्पन्नाः भवेयुः इति उद्देश्येन विश्वविद्यालयेन सर्वाः व्यवस्थाः अन्तिमरूपेण सज्जीकृताः।

शुक्रवासरे अपराह्णकाले विश्वविद्यालयस्य कुलपतिः प्रो बिहारी लाल शर्मा परिसरस्य अन्तर्गतं भविष्यन्तीनां शास्त्री-आचार्य-परीक्षाणां व्यवस्थायाः व्यापकनिरीक्षणं कृतवान्। अस्मिन् अवसरे तेन परीक्षाभवनम्, मुख्यभवनम्, बहुसङ्कायभवनम् तथा विविधविभागेषु सञ्चाल्यमानाः कक्षाः निरीक्षिताः तथा पठनपाठनस्य परीक्षा-सम्बद्ध-व्यवस्थानां च वास्तविकस्थितेः परीक्षणं कृतम्।

निरीक्षणकाले कुलपतिना मेमासस्य २८ दिनाङ्कात् जूनमासस्य ०९ दिनाङ्कपर्यन्तं आयोज्यमानानां सेमेस्टर-परीक्षाणां मुख्यपरीक्षाणां च कृते सञ्चाल्यमानानां गोपनीयप्रपत्रपूर्तेः, परीक्षासामग्रीसज्जीकरणस्य, अन्यव्यवस्थानां च अवलोकनं कृतम्। तेन परीक्षा-कार्ये नियुक्तेभ्यः कर्मचारीभ्यः आवश्यकाः निर्देशाः प्रदत्ताः तथा भीषण-उष्णतां दृष्ट्वा सावधानतया स्वास्थ्यसुरक्षया च सह कार्यं कर्तुं कथितम्।

प्रो बिहारी लाल शर्मा उक्तवान् यत् विश्वविद्यालयस्य परीक्षाः देशस्य सर्वेषु भागेषु एककालिकरूपेण आयोज्यन्ते, अतः परीक्षायाः शुचिता, गोपनीयता, समयबद्धता च रक्षितुं अत्यन्तम् आवश्यकम्। तेन कर्मचारिभ्यः अधिकारिभ्यश्च पूर्ण-जिम्मेदारी-समर्पणभावाभ्यां स्वकर्तव्यपालनाय आह्वानं कृतम्।

अनुपस्थिताचार्यस्य विरुद्धं वैधानिककार्यवाह्याः निर्देशाः

निरीक्षणकाले मुख्यभवने बहुसङ्कायभवने च सञ्चाल्यमानानां कक्षाणाम् अवस्थायाः अपि परीक्षणं कृतम्। अस्मिन् क्रमे साहित्यविभागस्य आचार्यः प्रो विजय कुमार पाण्डेय पूर्वसूचनां विना अनुपस्थितः दृष्टः। एतस्मिन् विषये कुलपतिना संज्ञानं गृहीत्वा विभागीयकर्मचारिभ्यः सूचना प्राप्ता तथा पूर्वसूचनां विना अनुपस्थितेः विषये वैधानिककार्यवाही कर्तुं निर्देशाः दत्ताः।

तेन स्पष्टतया उक्तं यत् समये कार्यस्थले उपस्थित्य स्वकर्तव्यपालनं प्रत्येकं शिक्षकस्य कर्मचारीणां च उत्तरदायित्वम् अस्ति तथा कस्यापि प्रकारस्य अनुशासनहीनता न सह्यते।

प्रो बिहारी लाल शर्मा उक्तवान् यत् एषा संस्था देववाण्याः संस्कृतभाषायाः अभ्युदय-संवर्धनयोः कृते निरन्तरं साधनाभावेन कार्यं करोति। अत्र कार्यरतैः सर्वैः जनैः पूजाभावेन स्वकर्तव्यानि पालनियानि।

निरीक्षणकाले कुलसचिवः राकेश कुमार, चीफ-प्रॉक्टरः प्रो जितेन्द्र कुमार, परीक्षा-नियन्त्रकः दिनेश कुमार सहिताः विश्वविद्यालयस्य अन्ये अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani