Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 22 मईमासः (हि.स.)।
मुख्यमन्त्री पुष्कर सिंह धामी मुख्यमन्त्रिणः आवासे आयोजितायां उच्चस्तरीयबैठके वनाग्निनियन्त्रणम्, पेयजलव्यवस्था, स्वास्थ्यसेवाः तथा मानसून-तत्परतायाः समीक्षा अकरोत्। सः अधिकारिणः समयबद्धां प्रभावीञ्च कार्यवाहीं सुनिश्चितीकर्तुं निर्देशान् दत्तवान्।
मुख्यमन्त्री उक्तवान् यत् वनसम्पदां हानिं कुर्वतां विरुद्धं कठोरकार्यवाही क्रियताम् तथा वनाग्नेः घटनानां नियन्त्रणार्थं प्रतिसादसमयः न्यूनतमः स्थाप्यताम्। सः निर्देशं दत्तवान् यत् वनाग्नेः सूचना प्राप्तेः एकघण्टायाः अन्तरे सम्बद्धाधिकारी घटनास्थलं प्राप्नुयुः।
वनाग्निनियन्त्रणार्थं शीतलखेत-आदर्शस्य अनुपालनस्य निर्देशाः
मुख्यमन्त्री वनाग्नेः प्रभाविनियन्त्रणार्थं शीतलखेत-आदर्शस्य प्रदेशव्यापिनः अनुप्रयोगस्य उपरि बलम् अददात्। सः अग्निरोधरेखायाः समीपे लघु-लघुतडागनिर्माणस्य, वनाग्निनिरोधार्थं सुदृढकार्ययोजनानिर्माणस्य तथा अग्निनिवारककर्मचारिभ्यः पर्याप्तोपकरणप्रदानस्य निर्देशान् दत्तवान्। मुख्यमन्त्री उक्तवान् यत् वनाग्नेः घटनानां निरोधार्थं व्यापकस्तरे जनजागरूकताअभियानं चालयितव्यम्।
मुख्यमन्त्री फॉरेस्ट-गार्ड्-पदानां पर्याप्तोपलब्धतां सुनिश्चितीकर्तुं सहस्रसंख्यकाः नूतननियुक्तयः कर्तुं निर्देशान् दत्तवान्। सह ग्रामसमितिभ्यः वनपञ्चायतेभ्यश्च वनाग्निनिरोधार्थं नियमानुसारम् आवश्यकबजट् प्रदातुम् उक्तवान्। मुख्यमन्त्री मानव-वन्यजीव-संघर्षस्य घटनाः दृष्ट्वा वनविभागस्य प्रत्येकस्मिन् विभागे पशुचिकित्सकानां पर्याप्तोपलब्धतां सुनिश्चितीकर्तुम् अपि निर्देशान् दत्तवान्। सः मोबाइल्-अलर्ट्-प्रणाल्याः माध्यमेन सम्बद्धक्षेत्रेषु वनाग्नेः सूचनां शीघ्रं प्रदातुं बलम् अददात्।
पेयजल-विद्युत्व्यवस्थायाः सुचारुतायाः उपरि बलम्
ग्रीष्मकालं दृष्ट्वा मुख्यमन्त्री प्रदेशे पेयजलस्य पर्याप्तोपलब्धतां सुनिश्चितीकर्तुं निर्देशान् दत्तवान्। सः उक्तवान् यत् पेयजल-टैङ्कराणां पूर्णोपलब्धता स्थातव्या तथा क्षतिग्रस्ताः पेयजल-रेखाः शीघ्रं सुचारुकरणीयाः। मुख्यमन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् सामान्यजनानां कृते पेयजलसम्बद्धा कापि समस्या न भवेत्। सः मैदानीप्रदेशेषु सह तीर्थाटन-पर्यटनस्थलेषु अपि पर्याप्तपेयजलोपलब्धतायाः निर्देशान् दत्तवान्।
मुख्यमन्त्री उक्तवान् यत् प्रदेशे विद्युत्प्रदायः निर्बाधः स्थातव्यः तथा ऊर्जोत्पादनवृद्ध्यर्थम् अधिकप्रभाविप्रयत्नाः करणीयाः।
मानसून-तत्परतायाः समीक्षा, प्रभारीसचिवाः करिष्यन्ति स्थलीयनिरीक्षणम्
मुख्यमन्त्री श्रावण-ऋतुम् अवलोक्य सर्वाः आवश्यकव्यवस्थाः समये सुनिश्चितीकर्तुं निर्देशान् दत्तवान्। सः उक्तवान् यत् जनपदानां प्रभारीसचिवाः स्वस्वजिलानां स्थलीयनिरीक्षणं कृत्वा व्यवस्थाः परीक्षन्ताम् तथा संवेदनशीलक्षेत्रेषु विशेषसतर्कता पालनीया।
अस्पतालेषु अग्निसुरक्षापरीक्षणं स्वच्छतायाश्च विशेषध्यानम्
स्वास्थ्यविभागस्य समीक्षायां मुख्यमन्त्री सर्वेषाम् अस्पतालानाम् अग्निसुरक्षापरीक्षणं अनिवार्यरूपेण कारयितुं निर्देशान् दत्तवान्। सः अस्पतालषु स्वच्छतायाः उत्तमव्यवस्थायाः संरक्षणे विशेषबलम् अददात्। मुख्यमन्त्री संस्थागतप्रसवान् प्रोत्साहयितुं निर्देशान् दत्त्वा उक्तवान् यत् सर्वासां गर्भवतीनां महिलानां सम्पूर्णदत्तांशः सुरक्षितः स्थापनीयः तथा मानसूनकाले तासां अस्पतालपर्यन्तं गमनार्थं समुचितव्यवस्था सुनिश्चितीकरणीया।
चारधामयात्रायां श्रद्धालूनां सुरक्षा सर्वोच्चप्राथमिकता
मुख्यमन्त्री उक्तवान् यत् ये श्रद्धालवः चारधामयात्रां प्रति गच्छन्ति तथा परीक्षणे स्वास्थ्यदृष्ट्या अयोग्याः दृश्यन्ते, तान् यात्रां न कर्तुं प्रेरणीयम्। सः उक्तवान् यत् श्रद्धालूनां सुरक्षितां सकुशलां च यात्रां कारयितुं राज्यसर्वकारस्य सर्वोच्चप्राथमिकता अस्ति।
उपवेशने प्रमुखसचिवः आर.के. सुधांशु, डॉ. आर. मीनाक्षी सुंदरम, प्रमुखवनसंरक्षकः रंजन मिश्रा, सचिवः सचिन कुर्वे, सी. रविशंकर, रणवीर सिंह चौहान, विशेषसचिवः डॉ. पराग मधुकर धकाते, अपरसचिवः बंशीधर तिवारीत्येभिः सहिताः सम्बद्धाधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani