Enter your Email Address to subscribe to our newsletters

भागलपुर-नगरम्, २२ मे-मासः (हि.स.)। विक्रमशिला-सेतौ वाहनानां परिचालनस्य पुनः प्रारम्भ-विषये मन्त्री ईं.शैलेन्द्रः शुक्रवासरे उक्तवान् यत् जनपद-प्रशासनम् अन्ये च सर्वे अधिकारिणः उत्तम-तकनीकी-समन्वयेन सह कार्यरताः सन्ति। मन्त्रिणा उक्तं यत् लघु-वाहनानां कृते सेतुः पञ्च-जून-पर्यन्तं पुनः प्रारभ्यते।
तेन उक्तं यत् एतत् अत्यन्तं समस्यापूर्णं कार्यम् अस्ति। अत्र सेतोः ध्वस्त-भागे देशस्य प्रथमः बेली-ब्रिज-निर्माण-कार्यक्रमः अन्तिम-चरणे वर्तते। एतदतिरिक्तं सेतौ अन्ययोः द्वयोः स्थलेषु अपि तकनीकी-दलेन बेली-ब्रिज-निर्माणार्थं स्थानानि चिह्नितानि सन्ति।
मन्त्री ईं.शैलेन्द्रः उक्तवान् यत् सम्पूर्ण-स्थितेः उपरि सततं दृष्टिः अस्ति। विभिन्न-स्तरेभ्यः अस्य निरीक्षणम् अपि क्रियते। समग्रतया लघु-वाहनानां कृते सेतुः पञ्च-जून-पर्यन्तं पुनः प्रारभ्यते।
उल्लेखनीयम् अस्ति यत् विक्रमशिला-सेतोः ३४-मीटर-दीर्घः एकः भागः गत-चतुर्थ-मे-मासस्य रात्रौ ध्वस्तः भूत्वा नद्यां पतितः आसीत्। ततः परं सेतौ पूर्णतया परिचालनं निरुद्धम् अस्ति। सेतौ बेली-ब्रिज-निर्माण-कार्यं तीव्र-गत्या प्रचलति। बीआरओ-संस्थया युद्ध-स्तरे कार्यं क्रियते, येन शीघ्रमेव आवागमनस्य पुनर्बहाली-सम्भावना वर्धिता अस्ति।
अपरतः भाजपा-दलस्य जनटद-उपाध्यक्षः प्रो.गौतमः, उत्तम-कुमारः, दिनेश-यादवः, प्रभुनन्दन-चौधरी, इं.कुमार-गौरवः इत्यादयः अवदन् यत् अपर-महानिदेशकः सीमा-मार्ग-संस्थायाः जितेन्द्र-प्रसादः (विशिष्ट-सेवा-पदक-पुरस्कृतः) अपि निरीक्षणं कृतवान्। बीआरओ-दलेन केवलम् एकस्मिन् दिने बेली-सेतो: १७०-फीट-दीर्घ-भागे लौह-पट्टिकानां स्थापन-कार्यं सम्पन्नम्। निर्माण-कार्यस्य एषा तीव्रता विक्रमशिला-सेतोः शीघ्र-प्रारम्भस्य दिशि महती उपलब्धिः इति मन्यते।
Hindusthan Samachar / Divya Ranjan