Enter your Email Address to subscribe to our newsletters

कोलकाता, 22 मईमासः (हि.स.)। पश्चिमबङ्गसरकारेण राज्यस्य महिलाभ्यः महती सौगात प्रदत्ता। एकजून्-२०२६ दिनाङ्कात् सर्वासु सरकारीयबसयानसेवासु निःशुल्कयात्रासुविधा प्रवर्तयितुं अधिसूचना निर्गता। राज्यस्य परिवहनविभागेन प्रकाशितायाः अस्याः योजनायाः उद्देश्यं महिलानां सशक्तीकरणं तथा सार्वजनिकपरिवहनसेवासु तासां सुलभसुरक्षितप्रवेशस्य सुनिश्चितीकरणम् इति कथितम्।
परिवहनविभागेन शुक्रवासरे प्रकाशितायाः अधिसूचनायाः अनुसारं राज्ये सञ्चालितासु सर्वासु सरकारीयलघुदूरीदीर्घदूरीबसयानसेवासु महिलायात्रिकाभ्यः निःशुल्कयात्रासुविधा प्रदास्यते। अस्याः योजनायाः लाभग्रहणार्थं पात्रमहिलाभिः आवेदनं कर्तव्यम्। ततः ताभ्यः क्यूआरकोडचित्रलाभार्थिविवरणयुक्तः स्मार्टकार्डः प्रदास्यते।
सरकारेण उक्तं यत् स्मार्टकार्डप्राप्त्यर्थं सम्बन्धितप्रखण्डविकासाधिकारीकार्यालये उपमण्डलाधिकारीकार्यालये वा आवेदनं कर्तव्यम्। आवेदनप्रक्रियाकाले महिलाभिः परिचयसंबद्धानि आवश्यकदस्तावेजानि समर्पणीयानि भविष्यन्ति।
अधिसूचनायाः अनुसारं महिलाभ्यः आधारकार्डः, मतदातृपरिचयपत्रम्, मनरेगाकार्यपत्रम्, आयुष्मानभारतकार्डः, वाहनचालनानुज्ञापत्रम्, पैनकार्डः, पारपत्रम्, छायाचित्रयुक्तपेंशनदस्तावेजः, केन्द्रराज्यसरकारयोः सार्वजनिकउपक्रमाणां परिचयपत्राणि च आधारेण स्मार्टकार्डः प्रदास्यते। एतदतिरिक्तं विद्यालयमहाविद्यालयविश्वविद्यालयैः प्रदत्तानि परिचयपत्राण्यपि मान्यानि भविष्यन्ति।
परिवहनविभागेन एतदपि स्पष्टतया उक्तं यत् यावत् स्मार्टकार्डः न प्रदीयते तावत् महिलाः वैधछायाचित्रयुक्तपरिचयपत्रं दर्शयित्वा निःशुल्कयात्रासुविधायाः लाभं ग्रहीतुं शक्नुवन्ति। अस्यार्थं आधारकार्डः, मतदातृपरिचयपत्रम्, वाहनचालनानुज्ञापत्रम्, पैनकार्डः, पारपत्रम्, सरकारीयसेवापरिचयपत्रम् इत्यादयः दस्तावेजाः ग्राह्याः भविष्यन्ति।
योजनायाः सञ्चालनविषये विभागेन बसयानपरिचालकानां कृते अपि दिशानिर्देशाः प्रकाशिताः। एतेषां अनुसारं परिचालकाः परिचयपत्राणां सत्यापनं कृत्वा महिलायात्रिकाभ्यः “शून्यमूल्यटिकटम्” प्रदास्यन्ति, येन यात्रायाः अभिलेखः अपि सुरक्षितः स्थापयितुं शक्यते।
राज्यसरकारस्य कथनम् अस्ति यत् अस्याः योजनायाः कारणेन महिलानां आर्थिकसञ्चयः भविष्यति, तासां आवागमनं सुलभं भविष्यति तथा शिक्षा, रोजगारः, अन्याः सामाजिकक्रियाकलापाश्च प्रति तासां सहभागिता वर्धिष्यते। सरकारेण अधिसूचनायां स्पष्टतया उक्तं यत् एषा योजना समग्रराज्ये एकजून्-२०२६ दिनाङ्कात् प्रभावीरीत्या प्रवर्तिता भविष्यति।--------------
Hindusthan Samachar / Dheeraj Maithani