प्रधानमन्त्रिणा मोदिना प्रकृतेः समृद्धेः च सन्देशः प्रदत्तः
नव-दिल्ली, २२ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी संस्कृत-सुभाषितस्य माध्यमेन प्रकृतेः, विकासस्य, सामूहिक-समृद्धेः च सन्देशं प्रदत्तवान्। तेन अद्य ‘एक्स्’ इति सामाजिक-माध्यमे एतत् संस्कृत-सुभाषितं लिखितम् यत् “वनस्पते शतवल्शो विरोह सहस्रवल
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नव-दिल्ली, २२ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी संस्कृत-सुभाषितस्य माध्यमेन प्रकृतेः, विकासस्य, सामूहिक-समृद्धेः च सन्देशं प्रदत्तवान्। तेन अद्य ‘एक्स्’ इति सामाजिक-माध्यमे एतत् संस्कृत-सुभाषितं लिखितम् यत्

“वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयं रुहेम। यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय॥”

अस्य सुभाषितस्य अर्थः अस्ति यत् वनस्पतिः शतशः सहस्रशः च शाखाभिः सह विकसितः समृद्धः च भवतु तथा मानव-समाजः अपि तेन सह उन्नतिं प्राप्नुयात्। प्रधानमन्त्री मोदी उक्तवान् यत् या तेजस्विनी शक्तिः प्रकृतेः महान् कल्याणं समृद्धिं च साधयितुं ताम् विकसितवती, सा एव शक्तिः समग्र-मानवतायै अपि मङ्गलकारिणी भवतु।

Hindusthan Samachar / Divya Ranjan