19तमः जीविकामेलापक: छत्तीसगढस्य 257 युवभ्योऽद्य लप्स्यते सर्वकारीपदस्य नियुक्ति पत्रम्
रायपुरम् 23 मईमासः (हि.स.)। छत्तीसगढ़राज्यस्य राजधानी रायपुरनगरे अद्य शनिवासरे उन्नविंशतितमस्य राष्ट्रियजीविकामेलायाः आयोजनं भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सम्पूर्णदेशस्य ४७ केन्द्रेषु आयोजितस्य रोजगारमेलायाः अन्तर्गतं देशभरस्य ५१ सहस्
19तमः जीविकामेलापक: छत्तीसगढस्य 257 युवभ्योऽद्य लप्स्यते सर्वकारीपदस्य नियुक्ति पत्रम्


रायपुरम् 23 मईमासः (हि.स.)।

छत्तीसगढ़राज्यस्य राजधानी रायपुरनगरे अद्य शनिवासरे उन्नविंशतितमस्य राष्ट्रियजीविकामेलायाः आयोजनं भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सम्पूर्णदेशस्य ४७ केन्द्रेषु आयोजितस्य रोजगारमेलायाः अन्तर्गतं देशभरस्य ५१ सहस्राधिकेभ्यः युवभ्यः शासकीयसेवायै नियुक्तिपत्राणां वितरणं चलचित्रसंगोष्ठी-माध्यमेन क्रियते।

रोजगारमेलायाः आयोजनं छत्तीसगढ़स्य दक्षिणपूर्वमध्यरेलवे-रायपुररेलमण्डलेन पण्डितदीनदयालउपाध्याय-प्रेक्षागृहे, एनआईटी-सम्मुखे, साइन्स-कॉलेज-समीपे रायपुरनगरे अद्य आयोज्यते।

अस्मिन् जीविकामेलापके रेलविभागे, डाकविभागे, वित्तसेवायाम्, स्वास्थ्यसेवायाम्, हिन्दुस्तान कॉपर लिमिटेड् इत्यादिषु विभागेषु चयनितेभ्यः छत्तीसगढ़स्य प्रायः २५७ अभ्यर्थिभ्यः नियुक्तिपत्राणि प्रदीयन्ते। अनेन न केवलं चयनिताभ्यर्थिनां भविष्यनिर्माणाय सुदृढाधारः प्राप्स्यते, अपितु एषा पहलः समग्रक्षेत्रस्य कृते अपि प्रेरणास्रोतः भविष्यति।

रोजगारमेलायाः मुख्यातिथिरूपेण दुर्गादास उइके जनजातीयकेन्द्रीयराज्यमन्त्री उपस्थितः भविष्यति। अस्मिन् कार्यक्रमे सांसदः बृजमोहन अग्रवालः, सांसदः लक्ष्मी वर्मा, रायपुरराज्यसभासदस्याः, रायपुरनगरस्य विधायकाः राजेश मूणत, पुरन्दर मिश्रः, सुनील सोनी, मोतीलाल साहू तथा रेलविभागतः मण्डलरेलप्रबन्धकः दयानन्दः, रायपुररेलमण्डलस्य वरिष्ठाधिकारिणः अन्यविभागानां वरिष्ठाधिकारिणश्च उपस्थिताः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani