Enter your Email Address to subscribe to our newsletters


रामगढ़म्, 23 मईमासः (हि.स.)।
पतरातूविद्युत् उत्पादननिगमलिमिटेड् (पीवीयूएनएल्) इत्यस्य द्वारा “गर्ल्स् एम्पावरमेंट् मिशन् २०२६” नामककार्यक्रमस्य शुभारम्भः शुक्रवासरस्य रात्रौ कृतः। अस्य विशेषपहलस्य अन्तर्गतं समीपवर्तिषु विद्यालयेषु अध्ययनरताः ५० बालिकाः पञ्जीकृताः सन्ति। अस्य कार्यक्रमस्य उद्देश्यं बालिकानां सर्वाङ्गीणविकासेन सह ताः भविष्याय आत्मनिर्भराः समर्थाश्च निर्मातुम् अस्ति।
सायंकाले आयोजिते उद्घाटनसमारोहे गतवर्षस्य गर्ल्स् एम्पावरमेंट् मिशन् कार्यक्रमस्य प्रतिभागिन्यः बालिकाः सांस्कृतिकप्रस्तुतयः प्रदर्शितवन्त्यः। ताभिः स्वानुभवाः साझीकृत्य नवीनप्रतिभागिन्यः प्रेरिताः। ताभिः कार्यशालायाः माध्यमेन प्राप्ता शिक्षणीयवस्तूनि, आत्मविश्वासः तथा व्यक्तित्वविकासः विषये अपि कथितम्। आगामिबैचस्य छात्राः अस्य अवसरस्य पूर्णलाभं ग्रहीतुं प्रेरिताः।
अस्मिन् अवसरे पीवीयूएनएल् संस्थायाः मुख्यकार्यपालकाधिकारी ए.के. सहगलः तथा स्वर्णरेखामहिलासमित्याः अध्यक्षा रेनू सहगल मुख्यातिथिरूपेण उपस्थितौ आस्ताम्। कार्यक्रमे पीवीयूएनएल् परिवारस्य महाप्रबन्धकाः, वरिष्ठाधिकारिणः, कर्मचारीगणः, तेषां परिवारजनाः बालकाः च अपि उपस्थिताः आसन्।
कार्यक्रमस्य समये छात्राभ्यः स्यूतः,गणवेशः, पादत्राणं, सामग्री तथा अन्यानि आवश्यकसामग्री च वितरिता। पीवीयूएनएल् संस्थया बालिकाभ्यः नवीनवस्तूनि ज्ञातुं, आत्मविश्वासवृद्धिं कर्तुं तथा आगामिपीढीनां कृते प्रेरणास्रोतः रोलमॉडल् च भवितुं निरन्तरं प्रयासाः क्रियमाणाः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani