प्रत्येकं नागरिकेन आभापरिचयपत्रं निर्माय लाभः स्वीकरणीयः - मुख्य चिकित्सा एवं स्वास्थ्य अधिकारी
जयपुरम्, 23 मईमासः (हि.स.)। स्वास्थ्यविभागः राजस्थानसर्वकारेण भारतसर्वकारस्य महत्त्वपूर्णा योजना आयुष्मानभारतांकीयमिशन राज्ये क्रियान्विता क्रियते। अस्याः योजनायाः लक्ष्यं भारतदेशे एकीकृतं डिजिटलस्वास्थ्यपरिस्थितिकी तन्त्रं निर्मातुम् अस्ति। अनेन द
प्रत्येक नागरिक आभा आईडी बनवाकर लाभ उठाएं :  सीएमएचओ


जयपुरम्, 23 मईमासः (हि.स.)। स्वास्थ्यविभागः राजस्थानसर्वकारेण भारतसर्वकारस्य महत्त्वपूर्णा योजना आयुष्मानभारतांकीयमिशन राज्ये क्रियान्विता क्रियते। अस्याः योजनायाः लक्ष्यं भारतदेशे एकीकृतं डिजिटलस्वास्थ्यपरिस्थितिकी तन्त्रं निर्मातुम् अस्ति। अनेन देशे यूनिवर्सलहेल्थकवरेज इत्यस्य अवधारणायाः साकाररूपेण कार्यान्वयनं शक्यं भविष्यति।

मुख्यचिकित्सास्वास्थ्याधिकारी जयपुरद्वितीय डॉ मनीषमित्तलः अवदत् यत् प्रत्येकनागरिकस्य आयुष्मानभारतहेल्थअकाउंट (आभाआईडी) इत्यस्य चतुर्दशाङ्कीयविशिष्टः आभानम्बरः राष्ट्रियडिजिटलइकोसिस्टमेन सह संयोजितः भवति। आभाआईडी इयं वैयक्तिकस्वास्थ्यअभिलेखअनुप्रयोगः अस्ति, यया जनाः स्वास्थ्यअभिलेखान् यथा लैबरिपोर्ट, टीकाकरणप्रमाणपत्राणि इत्यादीनि संयोजयितुं, द्रष्टुं तथा पञ्जीकृतचिकित्सकैः सह साझाकर्तुं शक्नुवन्ति। स्वास्थ्यसुविधानां अन्वेषणं कर्तुम् अपि शक्यते। नागरिकरूपेण डिजिटलमेडिकलअभिलेखैः सह उत्तमं नियन्त्रणं, समयस्य संरक्षणम्, पुनःपुनः क्रियमाणानां परीक्षणानां व्ययात् मुक्ति, स्वास्थ्यसेवानां उत्पादानां च सुलभतया अन्वेषणं तथा तेषां लाभग्रहणम् इत्यादयः सुविधाः प्राप्यन्ते। सामान्यनागरिकेभ्यः अपीलं क्रियते यत् ते चिकित्साविभागेन क्रियमाणे अस्मिन् कार्ये पूर्णसहयोगं ददतु, येन जनपदस्य प्रत्येकनागरिकस्य आभाआईडी निर्मातुं शक्येत।

उपमुख्यचिकित्सास्वास्थ्याधिकारी (स्वास्थ्य) डॉ सुरेन्द्रकुमारगोयलः अवदत् यत् आभाआईडी तथा आयुष्मान पत्रनिर्माणार्थं आधारकार्डं तथा आधारसंयोजितचलदूरवाणी यन्त्रं सह आनयित्वा स्वीयम् आभाआईडी तथा आयुष्मानपत्रं निर्मापयन्तु। आयुष्मानभारतडिजिटलमिशन (आभा) योजनायाः उद्देश्यं देशे डिजिटलस्वास्थ्यस्य संवर्धनम् अस्ति। जनपदे प्रत्येकनागरिकस्य आभाआईडी निर्माणार्थं चिकित्साविभागः प्रतिबद्धः अस्ति। अस्य अन्तर्गतं डिजिटलमञ्चस्य निर्माणं कृतम् अस्ति, येन सामान्यजनाः सरलतया सुगमतया च कस्यापि स्वास्थ्यसेवाप्रदातुः समीपे स्वीयान् प्राचीनअभिलेखान् सुरक्षितरूपेण आभाषिकरूपेण च कुत्रापि साझां कर्तुं शक्नुवन्ति तथा स्वास्थ्यसेवानां प्रभावी लाभं ग्रहीतुं समर्थाः भवन्ति। अनेन न केवलं स्वास्थ्यसेवाप्रदातृभ्यः उत्तमं सटीकं च रोगनिवारणं निदानं च साधयितुं साहाय्यं भविष्यति, अपितु रोगप्रबन्धनम् अपि अधिकसुसंगतरूपेण कर्तुं शक्यं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani