बस्तर सांसदः आध्यात्मिकेन गुरुणा श्रीश्री रविशंकरेणाकरोत् मेलनं, ‘गौर मुकुटद्वारा’ कृतवान् अभिनंदनम्
जगदलपुरम्, 23 मईमासः (हि.स.)।आर्टऑफलिविङ्ग-संस्थायाः अन्ताराष्ट्रियमुख्यालये बैङ्गलोराश्रमे प्रवासाय प्राप्तः बस्तरलोकसभाक्षेत्रस्य सांसदः महेशकश्यपः अद्य शनिवासरे आध्यात्मिकगुरुणा श्रीश्रीरविशङ्करेण सह मेलनंकृतवान्। अस्यां गोष्ठ्यां बस्तरसांसदः क
बस्तर सांसद ने आध्यात्मिक गुरु से की भेंट, गौर मुकुट से किया अभिनंदन


जगदलपुरम्, 23 मईमासः (हि.स.)।आर्टऑफलिविङ्ग-संस्थायाः अन्ताराष्ट्रियमुख्यालये बैङ्गलोराश्रमे प्रवासाय प्राप्तः बस्तरलोकसभाक्षेत्रस्य सांसदः महेशकश्यपः अद्य शनिवासरे आध्यात्मिकगुरुणा श्रीश्रीरविशङ्करेण सह मेलनंकृतवान्। अस्यां गोष्ठ्यां बस्तरसांसदः कश्यपः स्वधर्मपत्न्या सह उपस्थितः आसीत्, यत्र उभावपि तस्य आशीर्वादं क्षेत्रस्य खुशहालयै च मार्गदर्शनं प्राप्तवन्तौ।

बस्तरसांसदः महेशकश्यपः उक्तवान् यत् पूज्यगुरुदेवस्य श्रीश्रीरविशङ्करस्य सान्निध्यं प्राप्तुं तस्य दिव्यऊर्जां च अनुभूयितुं वास्तवमेव अलौकिकानुभवः अस्ति।

सांसदः महेशकश्यपः अस्मिन् अवसरे आध्यात्मिकगुरवे श्रीश्रीरविशङ्कराय बस्तराञ्चलस्य अत्यन्तसमृद्धां गौरवशालिनीम् अनन्यां च जनजातीयसंस्कृतेः वैश्विकप्रतीकं ‘गौरमुकुटम्’ अर्पयित्वा तस्य अभिनन्दनं कृतवान्। एतेन सह आदरभावेन गुरुदेवाय पारम्परिकशालापि ओढिता।

अस्मिन् समये सांसदः कश्यपः समग्रबस्तरवासिनां श्रद्धाकेन्द्रं क्षेत्रस्य अधिष्ठात्रीदेवीं आराध्यां ‘मातृदन्तेश्वरीम्’ इत्यस्याः पावनछविं गुरुदेवाय समर्पितवान्।

आध्यात्मिकगुरुः श्रीश्रीरविशङ्करः बस्तरस्य गौरवशालिनीं सांस्कृतिकनिक्षेपं तत्रत्याः जनजातीयकलाः बस्तरस्य सरलसत्यनिष्ठजनांश्च प्रशंसितवान्। तेन सांसदाय महेशकश्यपाय तस्य जनसेवासंकल्पानां सफलतायै शुभाशीर्वादः प्रदत्तः। बस्तराञ्चलस्य सर्वाङ्गीणविकासाय तत्र सुखसमृद्धिशान्तिलोककल्याणार्थं च स्वविशेषशुभकामनाः व्यक्तीकृत्य समग्रप्रदेशाय स्वमङ्गलमयम् आशीर्वादः प्रदत्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani