नीट परिक्षार्थिभ्यो बिहार सर्वकारस्य उत्तमः प्रयत्नः, सर्वेषु सर्वकारी बसयानेषु मिलिष्यति निःशुल्कं सुविधा
पटना, 23 मईमासः (हि.स,)। मुख्यमन्त्री सम्राट चौधरी चिकित्साप्रवेशपरीक्षा ‘नीट’ इत्यस्मिन् सम्मिलितानां लक्षाधिक-छात्रछात्राणां कृते बिहारराज्यपथपरिवहननिगमस्य (बीएसआरटीसी) सर्वासु शासकीयबसयानेषु आवागमनं पूर्णतया निःशुल्कं कर्तुं निर्देशं प्रदत्तवा
श्रावणी मेला-2026 की तैयारियों की समीक्षा बैठक करते हुए मुख्यमंत्री सम्राट चौधरी


पटना, 23 मईमासः (हि.स,)।

मुख्यमन्त्री सम्राट चौधरी चिकित्साप्रवेशपरीक्षा ‘नीट’ इत्यस्मिन् सम्मिलितानां लक्षाधिक-छात्रछात्राणां कृते बिहारराज्यपथपरिवहननिगमस्य (बीएसआरटीसी) सर्वासु शासकीयबसयानेषु आवागमनं पूर्णतया निःशुल्कं कर्तुं निर्देशं प्रदत्तवान्।

मुख्यमन्त्री शनिवासरे स्वस्य आधिकारिक-सामाजिकमाध्यमे ‘फेसबुक’ इत्यत्र लिखितवान् यत् ‘नीट’ परीक्षायां सम्मिलितानां सर्वेषां परीक्षार्थिनां सुविधार्थं बिहारराज्यस्य सर्वासु शासकीयबसयानेषु आवागमनं निःशुल्कं भविष्यति।

सहैव जिलाप्रशासनम्, राज्यस्य सर्वे मठमन्दिराः तथा गैरशासकीयसङ्गठनानि प्रति अपीलं कृतम् यत् ते बसस्थानकेषु, रेलस्थानकेषु तथा अन्येषु प्रमुखस्थानेषु परीक्षार्थिभ्यः तेषां अभिभावकेभ्यश्च पेयजलस्य, सत्तू-इत्यादीनां व्यवस्थायां सहयोगं कुर्वन्तु।

अस्य आदेशस्य अन्तर्गतं परीक्षादिने छात्राः स्वस्य प्रवेशपत्रं दर्शयित्वा बसयानेषु चिटिकां विना एव यात्रां कर्तुं शक्नुवन्ति। शासनस्य अस्य कदमस्य फलस्वरूपं न केवलं छात्राणां समये परीक्षा-केन्द्रप्राप्तौ सहायता भविष्यति, अपितु तेषाम् अभिभावकेभ्यः आर्थिकराहतमपि भविष्यति। सम्राट-शासनस्य अस्याः पहलायाः उद्देश्यं दूरस्थक्षेत्रेभ्यः आगच्छतां परीक्षार्थिनां कृते आर्थिक-मानसिक-तनावं विना परीक्षा-केन्द्रेषु गमनसहायता प्रदातुम् अस्ति।

बिहारराज्ये प्रचण्डग्रीष्मतापं दृष्ट्वा शासनं सर्वान् जिलाप्रशासनान् उच्चसतर्कतायां स्थितुं निर्देशितवती। सर्वे जिलाधिकारीणः स्वस्वक्षेत्रेषु स्थितेषु परीक्षा-केन्द्रेषु मूलभूतसुविधानां सुनिश्चितीकरणार्थं निर्देशिताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani