Enter your Email Address to subscribe to our newsletters

रायपुरम् 23 मईमासः (हि.स.)।
आकाशवाण्याः प्रादेशिकसमाचारैकांशस्य समसामयिकविषयाधारितकार्यक्रमस्य ‘‘बातों-बातों में’’ इत्यस्य अन्तर्गतं अस्मिन् वारे बस्तरसम्भागे नक्सलवादस्य समाप्तेः अनन्तरं स्थानीयजनान् प्रति विकासस्य प्रकाशं प्रापयितुं राज्यसर्वकारेण क्रियमाणानां अभिनवप्रयत्नानां विषये विशेषचर्चा प्रस्तूयते।
कार्यक्रमे छत्तीसगढ़स्य उपमुख्यमन्त्री तथा गृहमन्त्री विजय शर्मा इत्यस्य विशेषभेंटवार्तायाः प्रसारणं भविष्यति। अस्मिन् अवसरे उपमुख्यमन्त्री शर्मा मुख्यमन्त्रिणः विष्णुदेवसायस्य नेतृत्वे बस्तरसम्भागे शान्ति-सुरक्षा-विकासविषयेषु क्रियमाणानां कार्याणां तथा सर्वकारस्य योजनानां विषये जानकारीं दास्यन्ति।
अस्य विशेषकार्यक्रमस्य प्रसारणम् अद्य शनिवासरे आकाशवाणीकेन्द्ररायपुरतः एफएम तथा प्राइमरीचैनले भविष्यति। छत्तीसगढ़स्थितैः आकाशवाण्याः सर्वैः केन्द्रैः अस्य रिलेप्रसारणमपि क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani