Enter your Email Address to subscribe to our newsletters

दिल्ली, २३ मे-मास: (हि.स.)। चीनीय-राजदूतः शू-फेइहोंगः चीनी-भाषा-कुशलता-प्रतियोगिता-कार्यक्रमे उक्तवान् यत् भारतीय-यूनां मध्ये चीनी-भाषा-शिक्षणाय वर्धमानः रुचिः भारत-चीन-सम्बन्धान् नूतनां दिशा प्रददाति। सः इदं परस्पर-समझस्य मैत्र्याः च सुदृढीकरणाय महत्त्वपूर्णं पदम् इति अवदत्।
फेइहोंगः शुक्रवासरे अत्र आयोजिताया: चीनी-भाषा-कुशलता-प्रतियोगितायाः (भारत-खण्डः) ‘चाइनीज-ब्रिज’ इत्यस्य अन्तिम-चरणे पुरस्कार-वितरण-समारोहं सम्बोधितवान्। अस्मिन् अवसरं सः भारतीय-विश्वविद्यालय-संघस्य महासचिवां डॉ.पंकज-मित्तलम्, निर्णायकान्, शिक्षकान् तथा छात्रान् च अभिनन्द्य विजेता-प्रतिभागिनः प्रशंसितवान्।
राजदूतः उक्तवान् यत् गत-मासे अन्तरराष्ट्रीय-चीनी-भाषा-दिवसे १५०-तः अधिकाः भारतीय-छात्राः शिक्षकाः च चीनी-कला-संस्कृति-सम्बद्धेषु कार्यक्रमेषु भागं गृहीतवन्तः। अद्यतन-फाइनल-चरणे प्रतिभागिनः चीनी-भाषायां स्वकीयं सुदृढं ज्ञानं, उत्साहं, आत्मविश्वासं च प्रदर्शितवन्तः।
सः ‘चाइनीज-ब्रिज’ प्रतियोगितायाः २५तम-वर्षग्रन्थिं अभिनन्द्य तां अन्तरराष्ट्रीय-चीनी-भाषा-शिक्षणस्य ओलम्पिक इति उक्तवान्। सः अवदत् यत् एषः मंचः विगतेषु २५ वर्षेषु बहून् यून: उत्तम-अवसरैः योजितवान् अस्ति। गतवर्षे एकः भारतीय-प्रतिभागी चीन-सदर्न-एयरलाइन्स-संस्थायां नियुक्तिं प्राप्तवान्।
सः इदमपि घोषितवान् यत् भारतीय-यूनां कृते शीघ्रमेव ‘एक्सपीरियंसिंग-चाइना’ इति अध्ययन-यात्रा-कार्यक्रमः आरभ्यते। अस्य वर्षस्य विजेतृभ्यः अस्मिन् कार्यक्रमे प्राथमिकता दत्ता भविष्यति, येन ते चीन-देशस्य आधुनिक-विकासं प्रत्यक्षतया अवलोकयितुं शक्नुवन्ति।
राजदूतः उक्तवान् यत् चीन-भारतौ पर्वत-नदीभिः संयुतौ निकटस्थौ देशौ स्तः, ये विभक्तुं न शक्येते। सः युवान् प्रति आह्वानं कृतवान् यत् ते चीनी-भाषां शिक्षेरन्, चीनं सम्यक् अवगच्छेरन्, तथा च द्वयोः देशयोः मध्ये मैत्री-दूताः भवेयुः।
उल्लेखनीयम् अस्ति यत् ‘चाइनीज-ब्रिज’ इति विश्वस्य प्रमुखा चीनी-भाषा-संस्कृति-प्रतियोगिता अस्ति। अस्य आयोजनं चीन-शिक्षा-मन्त्रालयस्य अधीनस्थेन ‘सेंटर फॉर लैंग्वेज एजुकेशन एंड कोऑपरेशन (सीएलईसी)’ संस्थया क्रियते। अस्य उद्देश्यं विश्वभरस्य युवान् चीनी-भाषया तथा संस्कृत्या सह संयोजयितुम् अस्ति। समारोहावसरे राजदूतेन पञ्च-निर्णायकानां निष्पक्षतायाः व्यावसायिकतायाः च प्रशंसा कृता तथा चीनी-भाषा-शिक्षणं प्रोत्साहयन्तीनां भारतीय-मित्राणां धन्यवादः कृतः।
Hindusthan Samachar / अंशु गुप्ता