भाजपायाः राष्ट्रियाध्यक्षाय नितिन नवीनाय मुख्यमंत्री मोहन माझी अददात् जन्मदिनस्य शुभकामनाः
भुवनेश्वरम्, 23 मईमासः (हि.स.)। ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी भारतीयजनतापार्टी-दलस्य राष्ट्रियाध्यक्षं नितिननवीनं तस्य जन्मदिने हार्दिकशुभकामनाः अभिनन्दनं च प्रदत्तवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे नितिननवीनस्य गतिश
उड़ीसा के मुख्यमंत्री मोहन चरण माझी


भुवनेश्वरम्, 23 मईमासः (हि.स.)।

ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी भारतीयजनतापार्टी-दलस्य राष्ट्रियाध्यक्षं नितिननवीनं तस्य जन्मदिने हार्दिकशुभकामनाः अभिनन्दनं च प्रदत्तवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे नितिननवीनस्य गतिशीलनेतृत्वस्य संगठनस्य प्रति च तस्य अटूटनिष्ठायाः प्रशंसा कृता। स उक्तवान् यत् तस्य नेतृत्वं देशव्यापिनः असंख्यकार्यकर्तॄन् निरन्तरं प्रेरयति ऊर्जावन्तश्च करोति।

मुख्यमन्त्रिणा स्वसन्देशे लिखितं यत् भारतीयजनतापार्टी-दलस्य राष्ट्रियाध्यक्षरूपेण नितिननवीनस्य समर्पणं संगठनं सुदृढं कर्तुं च तस्य प्रतिबद्धता कार्यकर्तॄणां कृते प्रेरणास्रोतः अस्ति। तेन तस्य उत्तमस्वास्थ्यस्य सुखसमृद्धेः दीर्घायुषश्च कामना कृता।

मुख्यमन्त्री मोहनमाझी महाप्रभोः श्रीजगन्नाथस्य समीपे प्रार्थनां कृत्वा उक्तवान् यत् सः नितिननवीनाय उत्तमस्वास्थ्यं खुशहालीं जनसेवायै च दीर्घं सफलं च जीवनं प्रददातु।

---------------