इतिहासस्य पृष्ठेषु २४ मे-मासः - ...“आवाज़ मैं न दूंगा” इति गीतस्य स्मरणम्
उत्तरप्रदेशस्य सुल्तानपुर-जनपदे १९१९ तमस्य वर्षस्य अक्टोबर-मासस्य १ दिनाङ्के जातः मजरूह-सुल्तानपुरी हिन्दी-चलच्चित्र-जगतः प्रसिद्धः शायरः गीतकारश्च आसीत्। तस्य वास्तविकं नाम ‘असरार-उल-हसन-ख़ान’ इति आसीत्। तेन रचितेषु काव्येषु जीवनस्य अनस्पृष्ट-पक्ष
मजरुह सुल्तानपुरी, सुप्रसिद्ध गीतकार (फोटोः फाइल)


उत्तरप्रदेशस्य सुल्तानपुर-जनपदे १९१९ तमस्य वर्षस्य अक्टोबर-मासस्य १ दिनाङ्के जातः मजरूह-सुल्तानपुरी हिन्दी-चलच्चित्र-जगतः प्रसिद्धः शायरः गीतकारश्च आसीत्। तस्य वास्तविकं नाम ‘असरार-उल-हसन-ख़ान’ इति आसीत्। तेन रचितेषु काव्येषु जीवनस्य अनस्पृष्ट-पक्षाणां प्रभावपूर्णं चित्रणं दृश्यते। मजरूह-सुल्तानपुरी चत्वारिंशदधिक-वर्षपर्यन्तं विस्तीर्णे स्व-जीवने प्रायः ३०० चलच्चित्राणां कृते ४०००ाधिक-गीतानां रचनां कृतवान्। तस्य महत्त्वपूर्ण-योगदानं दृष्ट्वा १९९३ तमे वर्षे चलच्चित्र-जगतः सर्वोच्च-सम्मानेन ‘दादासाहब-फाल्के-पुरस्कार’ इत्यनेन सः सम्मानितः। एतदतिरिक्तं १९६४ तमे वर्षे प्रदर्शिते ‘दोस्ती’ इति चलच्चित्रे तेन रचितस्य ‘चाहूँगा मैं तुझे सांझ सवेरे’ इति गीतस्य कृते सः ‘फिल्म-फेयर’-पुरस्कारेण सर्वश्रेष्ठ-गीतकारत्वेन अपि सम्मानितः। एषः महान् शायरः गीतकारश्च २००० तमस्य वर्षस्य २४ मे-मासे ८० वर्षस्य वयसि संसारात् प्रयातः।

महत्त्वपूर्णानि घटनाचक्राणि

१९९४ तमे वर्षे सऊदी-अरब-देशस्य मीना-प्रदेशे भगदडे जाता, यस्यां २५० अधिकाः हाजि-यात्रिण: मृताः।

२००० तमे वर्षे दक्षिण-लेबनान-प्रदेशात् २२ वर्षात्मकः रक्तरञ्जितः संघर्षः समाप्तः, इस्रायली-सेना प्रत्यावृत्ता।

२००२ तमे वर्षे नेपाल-देशे नेपाली-काँग्रेस-दलेन प्रधानमन्त्री शेरबहादुर-देउबा दलात् निलम्बितः।

२००३ तमे वर्षे इस्रायल-देशस्य प्रधानमन्त्री एरियल-शैरोन पश्चिम-एशिया-शान्ति-योजनां स्वीकृतवान्।

२००५ तमे वर्षे एनबी-इंकबेयर मङ्गोलिया-देशस्य राष्ट्रपतिः निर्वाचितः।

२००७ तमे वर्षे एमा-निकोलसन-प्रतिवेदनं यूरोपीय-संघस्य संसदि पारितम्।

२००८ तमे वर्षे उत्तरप्रदेश-सर्वकारेण राज्य-कर्मचारिणां महार्घ-भत्तायां षट्-प्रतिशत-वृद्धेः निर्णयः कृतः।

जन्मदिवसाः—

१९६९ — सुधीरकुमार-वालिया : भारतीय-स्थल-सेनायाः वीर-सैनिकेषु अन्यतमः।

१९५५ — राजेश-रोशन : हिन्दी-चलच्चित्र-जगतः प्रसिद्धः सङ्गीतकारः।

१९५२ — रञ्जन-मथाई : भारतस्य पूर्व-विदेश-सचिवः।

१९५४ — बछेन्द्री-पाल : एवरेस्ट-पर्वतं आरुढवती प्रथम-भारतीय-महिला।

१९३७ — थौनाओजम-चौबा-सिंह : भारतीय-जनता-पक्षस्य राजनीतिज्ञः।

१९२८ — जन-कृष्णमूर्ति : २००१-२००२ तमे वर्षे भारतीय-जनता-पक्षस्य राष्ट्रीयाध्यक्षः।

१९२० — नीलमणि-राउत्रे : उड़ीसा-राज्यस्य भूतपूर्व-मुख्यमन्त्री।

१८९९ — काज़ी-नज़रुल-इस्लाम : प्रसिद्धः बाङ्ग्ला-कविः सङ्गीतज्ञः दार्शनिकश्च।

१८९६ — करतारसिंह-सराभा : भारतस्य प्रसिद्धः क्रान्तिकारी।

१८१९ — महारानी-विक्टोरिया : ग्रेट्-ब्रिटेन-आयरलैण्ड-देशयोः महाराज्ञी।

निधनानि—

२०२३ — टी. रिनपोछे : लद्दाख-प्रदेशस्य प्रसिद्धः आध्यात्मिकः राजनैतिक-नेता च।

२००० — मजरूह-सुल्तानपुरी : हिन्दी-चलच्चित्र-जगतः प्रसिद्धः गीतकारः शायरश्च।

१९९९ — गुरु-हनुमान : भारतस्य महान् मल्ल-प्रशिक्षकः मल्लयोद्धाश्च।

१९८१ — एस्. के. पाटिल : भारतस्य प्रमुखः राजनेता।

१९०५ — प्रतापचन्द्र-मजूमदार : ब्रह्मसमाजस्य प्रसिद्धः नेता।

१९९० — के. एस. हेगड़े : भारतीयः विधिवेत्ता राजनीतिज्ञः पूर्व-लोकसभा-अध्यक्षश्च।

१८७९ — विलियम-लायड-गैरिसन : अमेरिकीय-दासता-विरोध-आन्दोलनस्य नेता।

१५४३ — निकोलस-कॉपरनिकस : प्रसिद्धः यूरोपीय-खगोलशास्त्री गणितज्ञश्च।

महत्त्वपूर्णाः अवसराः

राष्ट्रमण्डल-दिवसः

विश्व-क्षयरोग-दिवसः

Hindusthan Samachar / Divya Ranjan