प्रदेशवासिभ्यः उत्तमाः उच्चस्तरीयस्वास्थ्यसुविधाः उपलब्धुं प्रतिबद्धः : मंत्री गजेन्द्र सिंहः
जयपुरम्, 23 मईमासः (हि.स.)। राजस्थान-आयुर्विज्ञान संस्थानस्य स्थापनां प्रति मिशनमोडरूपेण कार्यं क्रियते। अस्यैव क्रमस्य अन्तर्गतं शनिवासरे चिकित्सास्वास्थ्यमन्त्री गजेन्द्रसिंहखींवसरस्य अध्यक्षतायां स्वास्थ्यभवने उच्चस्तरीयसमीक्षाबैठकायाः आयोज
प्रदेशवासियों को बेहतर एवं उच्चस्तरीय स्वास्थ्य सुविधाएं उपलब्ध करवाने के लिए प्रतिबद्ध : मंत्री गजेन्द्र सिंह


जयपुरम्, 23 मईमासः (हि.स.)।

राजस्थान-आयुर्विज्ञान संस्थानस्य स्थापनां प्रति मिशनमोडरूपेण कार्यं क्रियते। अस्यैव क्रमस्य अन्तर्गतं शनिवासरे चिकित्सास्वास्थ्यमन्त्री गजेन्द्रसिंहखींवसरस्य अध्यक्षतायां स्वास्थ्यभवने उच्चस्तरीयसमीक्षाबैठकायाः आयोजनं कृतम्।उपवेशने चिकित्साशिक्षाविभागस्य वरिष्ठाधिकारिणः, विशेषज्ञचिकित्सकाः तथा स्टीयरिंगकमेटेः सदस्याः सहभागितां कृतवन्तः। बैठके आरयूएचएस संस्थानस्य रिम्सरूपेण अत्याधुनिकविश्वस्तरीयचिकित्सासंस्थानत्वेन स्थापने विषये विस्तृता चर्चा कृता।

चिकित्सास्वास्थ्यमन्त्री गजेन्द्रसिंहखींवसरः उक्तवान् यत् राज्यसरकारः प्रदेशवासिभ्यः उत्तमाः उच्चस्तरीयाः च स्वास्थ्यसुविधाः प्रदातुं प्रतिबद्धा अस्ति। सः अवदत् यत् रिम्सस्य स्थापना चिकित्साशिक्षा, अनुसंधानम् तथा सुपरस्पेशियलिटीस्वास्थ्यसेवानां क्षेत्रे राजस्थानस्य कृते महत्त्वपूर्णा उपलब्धिः सिद्धा भविष्यति। चिकित्सामन्त्रिणा अधिकारिभ्यः निर्देशाः दत्ताः यत् परियोजनासम्बद्धानि सर्वाणि कार्याणि चरणबद्धरूपेण समयबद्धरीत्या च पूर्णानि क्रियन्ताम्। तेन आधारभूतसुविधानां विस्तारः, आधुनिकचिकित्सायन्त्राणाम् उपलब्धता, डिजिटलहेल्थसिस्टम तथा विशेषज्ञसेवानां विस्तारः प्राधान्येन करणीयः इति निर्देशः दत्तः। सः अवदत् यत् संस्थानम् अत्याधुनिकं तकनीकीदृष्ट्या समर्थं च चिकित्साकेन्द्ररूपेण विकसितव्यं, येन रोगिभ्यः गुणवत्तापूर्णाः सुलभाः च स्वास्थ्यसेवाः प्राप्ताः स्युः। तेन आरयूएचएस चिकित्सालये मानवसंसाधनस्य शीघ्रवृद्धेः निर्देशाः अपि दत्ताः। एतदर्थं त्रयाणां विशेषज्ञचिकित्सकानां समितिः गठिता भविष्यति।

उपवेशनेराजस्थान आयुर्विज्ञान संस्थानस्य स्थापनासम्बद्धेषु प्रशासनिक, तकनीकी तथा कानूनीपक्षेषु अपि विस्तृता चर्चा कृता। विशेषज्ञैः संस्थानं विश्वस्तरीयचिकित्साअनुसंधानकेन्द्ररूपेण विकसितुं स्वीयाः सूचनाः प्रस्तुताः। विशेषज्ञैः अस्मिन् संस्थाने उच्चगुणवत्तायुक्तक्लिनिककेयर, चिकित्साविज्ञानक्षेत्रे विश्वस्तरीयानुसंधानम् तथा प्रशासनिकाधारभूतसंरचनाविषये महत्त्वपूर्णाःपरामर्शाः प्रदत्ताः।

चिकित्साशिक्षाविभागस्य प्रमुखशासनसचिवा गायत्रीराठौड़ः रिम्सविकासविषये अद्यावधि कृतप्रयत्नान् तथा भावियोजनां विषये अवगतवती। सा अवदत् यत् राज्यसर्वकारस्य अभिप्रायानुसारम् अस्य संस्थानस्य विकासार्थं प्रभावीएक्शनप्लानः निर्माय कार्यं क्रियते, येन निर्धारितसमये कार्यं सम्पन्नं भवेत्। तया सूचितम् यत् आरयूएचएस चिकित्सालये विगतकाले अनेकाश्च सर्वविधसौविध्यसेवाः प्रारब्धाः। एडवांसडायग्नोसिससेवाः अपि प्रारभ्यन्ते। अनेन अत्र रोगिभ्यः गुणवत्तापूर्णः उपचारः प्राप्यते। निरन्तरं विशेषज्ञचिकित्सासेवाविस्तारेण अत्र ओपीडी तथा आईपीडी उभयत्र रोगिणां संख्या तीव्ररूपेण वर्धिता अस्ति। रिम्सस्य विकसिते सति एसएमएससहितप्रमुखचिकित्सालयानां रोगिभारः न्यूनः भविष्यति तथा प्रदेशे सुपरस्पेशियलिटीचिकित्सासेवाः विस्तरिष्यन्ते।

चिकित्साशिक्षाआयुक्तः बाबूलालगोयलः अवदत् यत् रिम्सम् अत्याधुनिकं स्वायत्तं उच्चस्तरीयं च सुपरस्पेशियलिटीसंस्थानरूपेण स्थापितं भविष्यति, यत्र चिकित्सासेवा, अनुसंधानम् तथा मेडिकलशिक्षा नवां दिशां प्राप्स्यन्ति। एतत् संस्थानम् एम्सदिल्लीसंस्थानस्य अनुरूपम् उत्कृष्टचिकित्सासेवाः, उन्नतानुसंधानम् तथा गुणवत्तापूर्णपोस्टग्रेजुएटशिक्षायाः केन्द्रं भविष्यति। संस्थाने आधुनिकतकनीक, डिजिटलहेल्थसिस्टम, एआईआधारितसुविधाः तथा रोबोटिकतकनीकानां समावेशः करिष्यते।

आरयूएचएसस्य कुलगुरुः प्रमोदयेवले अवदत् यत् रिम्सं पूर्णतया पोस्टग्रेजुएट तथा क्वाटरनरीरेफरलइन्स्टीट्यूटरूपेण विकसितुं दिशि तीव्रगत्या कार्यं प्रचलति। बैठके एसएमएसमेडिकलकॉलेजस्य प्रधानाचार्यः डॉ दीपकमाहेश्वरी, चिकित्साशिक्षाविभागस्य अतिरिक्तनिदेशिका डॉ रश्मिगुप्ता तथा आरयूएचएसचिकित्सामहाविद्यालयस्य प्रधानाचार्यः, आरयूएचएसस्य चिकित्साअधीक्षकः सहिताः विभागीयाधिकारिणः उपस्थिताः आसन्।

एम्सदिल्ली तथा विभिन्नप्रतिष्ठितचिकित्सासंस्थानैः सम्बद्धाः विशेषज्ञचिकित्सकाः तथा स्टीयरिंगसमितेः सदस्याः अपि सहभागितां कृतवन्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani